________________
न्येव करणानि न मन इति। किञ्चासंज्ञिप्रत्यक्षे व्यभिचारेण सर्वप्रत्यक्षेषु मनसो व्याप्रियमाणत्वस्यासिद्धः । ननु वस्तुप्राप्याप्राप्येति कथम्, सर्वेषामप्यक्षाणां सम्बद्धवस्तुग्राहित्वेन प्राप्यकारित्वात् यदवादि “सम्बद्धं वर्तमानं हि गृह्यते चक्षुरादिना” इति चेत्, नस्पर्शनरसनघ्राणश्रोत्राणां यथायथं वद्धस्पृष्टादिवस्तुग्राहकत्वेन प्राप्यकारित्वात् चक्षुर्मनसोस्तद्विपरीतत्वेनाप्राप्यकारित्वादिति । अत्राहुबौद्धाः-श्रोत्रस्याप्यप्राप्यकारित्वाच्चतुर्णां प्राप्यकारित्वमसिद्धम्। तथा हि-यद्यदिग्देशव्यपदेशकारि तत्तदप्राप्यकारि,यथा लोचनम्। अप्राप्यकारित्वव्याप्यदिग्देशव्यपदेशकारित्ववच्छ्रोत्रम्।यन्न दिग्देशव्यपदेशकारि तन्नाप्राप्यकारि, यथा रसना। दिग्देशव्यपदेशकारि चेदम्। इत्यन्वयव्यतिरेकाभ्यामुदाहरणोपनयाभ्यामवयवाभ्यामप्राप्यकारित्वं श्रोत्रस्य । न च दिग्देशव्यपदेशकारित्वस्यासिद्धिः, प्राच्यादिदिस्थितपुरुषोच्चारितशब्दे प्राच्यादित आगतोऽयमिति प्रतीतः । इति चेन्मैवम् । गन्धस्पर्शयोरपि तथाप्रतीतत्वाद्माणस्पर्शनयोरप्यप्राप्यकारित्वप्रसक्तः। न च तत्तद्गन्धस्पर्शादीनामनुमानतः कारणान्यवगम्य तथाप्रतीतिः, शब्देऽप्येवं वक्तुं शक्यत्वात्। किञ्च श्रोत्रस्य दिग्देशविषयकत्वमपि न युक्तियुक्तम्, शब्दस्यैव श्रोत्रविषयत्वात्, “श्रोत्रविषयाः शब्दाः” इति वचनात्,