________________
( ४ ) अर्थापत्त्या सहैतच्च पञ्चधाऽऽह प्रभाकरः । पञ्चाप्यनुपलब्ध्या षट्, तान्याहुर्भट्ट सूनवः ॥ ४ ॥ षड्वै वेदान्तिनोऽप्याहुः, सम्भवाद्यानि चापरे । प्रभूतानामपीत्थम्, प्रतिपत्तिरनेकधा ॥ ५॥ "
इति । तत्कथमेवं सङ्गच्छते यद्विविधं प्रमाणमितीति चेत्, तन्न, अनुमानस्य परोक्षरूपप्रमाणत्वसमर्थनेन प्रत्यभिज्ञादीनां प्रमाणत्वसत्त्वेनोपमानादीनां प्रत्यभिज्ञादिष्वन्तर्भावेन च चार्वाकाद्यभिहितानामुन्मतप्रलपितप्रायत्वात् । ननु प्रत्यक्षस्येन्द्रियजन्यत्वाविशेषे कथं द्विभेद इति चेत्, स्पष्टताजीवातुकस्य तस्येन्द्रयमात्रजन्यत्वस्यासिद्धेः, सांव्यवहारिकप्रत्यक्षस्य बाह्यसापेक्षत्वात् पारमार्थिकस्य चात्मसापेक्षत्वादिति । सांव्यवहारिकमपीन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं चेति द्विभेदम् । इन्द्रियाण्येव स्पर्शनादीनि पञ्च करणानि वस्तु प्राप्याप्राप्य च यज्ज्ञानं जनयन्ति तदिन्द्रियनिबन्धनम् । मनएवसाधारणं कारणं यस्मिंस्तदनिन्द्रियनिबन्धनम् । न च सर्वेष्वपि प्रत्यक्षेषु मनो व्याप्रियत एवेति कथं तद्विविधमिति वाच्यम् । करणभेदेन तद्भेदात्, तथाहि यदसाधारणं कारणं तदेव करणमिति नियमात् स्वप्ना - वस्थायां वाह्येन्द्रियव्यापारविगमाद्वाह्यप्रत्यक्षाभावेन बाह्यप्रत्यक्ष इन्द्रियाण्येवासाधारणानि कारणानीति ता