________________
षष्ठः सोपानः।
२७ यत् सत् तद् द्रव्यं पर्यायो वेत्यादिः । यः पुनरपारमार्थिकद्रव्यपर्यायप्रविभागमभिप्रेति स तदाभासः । यथा चार्वाकमतम् । ऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्रयन्नध्यवसायऋजुमूत्रः । यथा सुखविवर्तः सम्प्रत्यस्तीत्यादिः । सर्वथा द्रव्यापलापी ऋजुसूत्राभासः । यथा ताथागतमतम् । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः। कालादयश्चात्र काल-कारकलिङ्ग-सङ्ख्या-पुरुषो-पसर्गाः। द्रव्यरूपतया पुनरभेदमस्योपेक्षते । यथा-कालभेदे बभूव-भविष्यति-भवति सुमेरुरिति । करोतिक्रियते कुम्भ इति कारकभेदे । तटस्तटीतटमिति लिङ्गभेदे । दारा:कलत्रमिति सङ्ख्याभेदे । एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे । सन्तिष्ठतेऽवतिष्ठते इत्युपसर्गभेदे । कालादिभेदेन ध्वनेरर्थभेदमेव समर्थयमानः शब्दाभासः । यथा बभूव भविष्यति भवति सुमेरुरित्यादयो ध्वनयो भिन्नकालाः भिन्नमेवार्थमाचक्षते भिन्नकालशब्दत्वात्, तादृसिद्धान्यशब्दवदित्यादिः पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । शब्दनयो हि पर्यायभेदेप्यर्थाभेदं स्वीकुरुते, समभिरूढस्तु पर्यायभेदे भिन्नानानभिमनुते अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते । यथा-इन्दनादिन्द्रः, शकनाच्छकः, पूर्दारणात्पुरन्दर इत्यादिषु । पर्यायध्वनीनामर्थनानात्वमेवाङ्गीकुर्वाणः समभिरूढाभासः। यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नार्थी एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदिति । शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतः। समभिरूढः खलु सत्यामसत्यां चन्दनादिक्रियायां वासवादेरथस्येन्द्रादिव्यपदेशमभिसन्धत्ते क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात् । पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् , तथारूढेः सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिणतमेवार्थ तत्क्रियाकाले