SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ( १७ ) शे सोऽपि कथम्, तथा सति त्रसरेणैौ तु स निर्वाध एव । किञ्चावयवानुपलब्धेरित्यस्य स्वावयवानुपलब्धेरिति पर्यवसितत्वेनाकाशस्यावयवाभावेन तदुपलब्ध्यप्रसिद्धया तदभावस्यापि सुतरामसिद्धेर्दृष्टान्तासिद्धिः। ननु व्यतिरेकदृष्टान्तेन साधने कथं सेति चेत्, न, अप्रयोजकत्वात् । ननु निरुपाधिकत्वमेव प्रयोजक मस्त्विति चेत्, न, अमूर्त्तत्वस्यैव तत्त्वात्, तथा हि साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः, स च प्रकृतेऽपि अपौगलिकेषु आत्मादिषु सत्त्वात् साधनवत्सु शब्दोल्कादिषु चासत्वान्निराबाध एव । सूक्ष्ममूतीन्तराप्रेरकत्वाच्छब्दस्य गन्धादिवदपौद्गलिकत्वसि - द्धिरित्यप्यसाम्प्रतम्, अप्रयोजकत्वाद्धूमसूक्ष्मरजोगन्धद्रव्यादिभिर्व्यभिचाराच्च । नहि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशो द्भिन्नस्मथुप्रेरकं दृश्यते । शब्दस्य गगनगुणत्वात् तत्सिद्धिरिति चेत्, न, गुणत्वासिद्ध्या शब्दो न गगनगुणः अस्मदादिप्रत्यक्षत्वाद्रूपवदित्याद्यनुमानेन च स्वरूपासिद्धेरप्रयोजकवाच्च । एतेन “ आकाशस्य तु विज्ञेयः, शब्दो वैशेषिको गुणः इति विश्वनाथभट्टाचार्यवचोऽप्यपास्तम् । स्पर्शशून्याश्रयत्वेन तत्सिद्धिरिति तु मन्दम्, शब्दाश्रयभू ""
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy