________________
महम् ।
श्रीविजयधर्म सूरिंगु नमो.
न्यायविशारद-न्यायतीर्थमुनिराज श्रीन्यायविजयमहाराजविरचितम् ।
श्रीन्यायतीर्थप्रकरणम् ।
प्रणिपत्यार्हतीं वाचं धर्माचार्यपदानि च ।
श्रीन्यायतीर्थो यतते न्यायतीर्थचिकीर्षया ॥ १ ॥
सम्यग्ज्ञानं प्रमाणम् । अत्र सम्यक्त्वं यथार्थत्वम्, अर्थाव्यभिचारित्वमितियावत् । एतेन संशयादयः प्रमाणत्वेन परिहृता भवन्ति । संशयो ह्येकत्र वस्तुनि विरुद्धनानाकोटिपरिस्पर्शी प्रत्ययः, तथाहि दूरतो ऽन्धकारादिदोषवशात् स्थाणुपुरुषसाधारणोर्ध्वतादिधर्मदर्शने तत्तदसाधारणस्कन्धकोटरादिशिरःपाण्यादिधर्मापरिज्ञाने भवति खलु 'स्थाणुर्वा पुरुषो वा' इत्येवं भूयसी संशयव्यवस्था ।
एवमेकस्मिन् वस्तुनि विपरीत एवाऽध्यवसायो विपर्ययोऽन्यथाख्याति-भ्रमाद्यपरपर्यायः । विपरीतत्वं चाध्यवसाये सद्भूतविपरीतविषयावगाहित्वेन विज्ञेयम् । यथा शुक्तिशकले रजतमेतत् इति धीः । किमित्युले खिज्ञानं पुनरनध्यवसायः, तथाहि - पथि प्रयातः पुंसस्तु - णस्पर्शादिगोचरमन्यत्रासक्तचेतस्त्वात् एवंजातीयमेवनामकमिदं वस्तु इत्यादिविशेषानुल्लेखि किमपि स्पृष्टमिति किमित्युल्लेखेन समुद्भवत् ज्ञानमनवधारणात्मकत्वादनध्यवसायः प्रोच्यते । अयमेव च बौद्धैः प्रमाणत्वेनाभिमतं निर्विकल्पज्ञानम्, तस्यापि विशेषोल्लेखराहित्यात् । अयं चानध्यवसायो नाना कोट्य नवगाह
न्याय ० १