________________
न्यायतीर्थप्रकरणम् ।
किश्च मार्जारादिचक्षुषोर्भासुररूपदर्शनादन्यत्रापि नेत्रे तैजसत्वप्रसाधनायां गवादिलोचनयोः कालिम्नः नरनारीनेत्रयोर्धवलिनश्वोपलब्धेरविशेषेण पार्थिवत्वमाप्यत्वं वा साध्यताम् । यदिच स्पर्श - नादौ प्राप्यकारित्वदर्शनात् चक्षुषि तत्प्रसाध्येत तर्हि हस्तादीनां प्राप्तानामेवान्याकर्षकत्वोपलम्भात् अयस्कान्तादीनामपि तथा लोहाकर्षकत्वं किन साध्येत ? प्रमाणविरोधोऽन्यत्रापि । कथञ्च प्राप्तार्थप्रकाशत्वे चक्षुषा स्फटिकाद्यन्तरितार्थग्रहणम् अप्राप्यकारित्वेपि कुड्यादिव्यवहितार्थोपलम्भः कथं न ? इति चेत् ? योग्यताविरहादेवेति ब्रूमः । अमुमेव चोपासितुं भवन्तोप्यर्हन्त्येव । अन्यथा रश्मयो लोकान्तं कुतो न गच्छन्ति । इतिप्रश्ने किमुत्तरमन्वेषेरन् । तथाच चक्षुरप्राप्तार्थप्रकाशकम्, अत्यासन्नार्थप्रकाशकत्वात्, यन्नैवं तन्नैवं यथा श्रवणादीति प्रयोगसिद्धेः सिद्धिश्चक्षुषोऽप्राप्यकारितयेति ।
एवं मनोप्यप्राप्यकारि, विषयकृतानुग्रहोपघाताभावात् । विपययात्तु स्पर्शनादीन्द्रियचतुष्टयं प्राप्यकारीति । अत्र स्पर्शने - न्द्रियेणैकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः, स्पर्शनरसनेन्द्रियाः कृमिशङ्खशुक्तिकाजलौकःप्रभृतयत्रसाः, स्पर्शनरसनप्राणैस्त्रीन्द्रियाः पेचिकाकुन्थुशतपदीपिपीलिकाप्रमुखाः, स्पर्शनरसनघ्राणनेत्रैश्चतुरिन्द्रियाः भ्रमरमक्षिकादंशमशकादयः, स्पर्शनरसनम्राणनेत्र श्रोत्रैः पञ्चेन्द्रियाः मत्स्योरगपक्षिचतुष्पदास्तिर्यग्योनिजाः सर्वे च नारकमानुषदेवा इति । एतानि चेन्द्रियाणि द्विविधानि द्रव्यभावभेदात् । तत्र द्रव्येन्द्रियं विशिष्टबाह्याभ्यन्तरसंस्थानविशेषशालिनः पुद्गलाः । तथाहि श्रोत्रादिषु यः कर्णशष्कुल्यादिप्रभृतिर्बाह्यः पुद्गलानां प्रचयः, यश्चाभ्यन्तरः कदम्बगोल काद्याकारः, स सर्वोsप्रधानेन्द्रियत्वात् द्रव्येन्द्रियमुच्यते । अप्राधान्यंच व्यापारवत्यपि तस्मिन् सन्निहितेपि चालोकप्रभृतिसहकारिनिकुरम्बे भावेन्द्रियव्यतिरेकेण स्पर्शाद्युपलब्धेरभावात् । भावेन्द्रियमपि द्वेधा ।