________________
द्वितीयः सोपानः। लब्धिरुपयोगश्च । तत्र ज्ञानावरणकर्मक्षयोपशमो लब्धिः । सा ह्यात्मनः स्वार्थसंवित्तौ योग्यतामादधती भावेन्द्रियतां प्राप्नोति । नहि तत्रायोग्यस्य तदुत्पत्तिर्गगनवदिति स्वार्थसंविद्योग्यतैव लब्धीन्द्रियम् । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम्, नह्यव्यापृत आत्मा स्पर्शादिप्रकाशकः, सुषुप्तादीनामपि प्रकाशकत्वप्रसक्तेरिति द्विविधमेतत् प्रधानेन्द्रियत्वात् भावेन्द्रियमुच्यते ।
साङ्ख्यास्तु वचनादानविहरणोत्सर्गानन्दग्रहणानि वाक्पाणिपादपायूपस्थलक्षणान्यन्यान्यपीन्द्रियाणि प्राहुः, नैतत् साधु, ज्ञानहेतूनामेवेन्द्रियत्वेनाधिकारात् । चेष्टाविशेषनिमित्तत्वेनेन्द्रियत्वकल्पने चेष्टाविशेषाणामनियतत्वेनेन्द्रियाणां प्रतिनियतसङ्ख्याव्यवस्थानुपपत्तेः। ये तु अर्थालोकावपि चक्षुझेने कारणत्वेनाहुः । नामी सुभाषितारः । ज्ञानसाक्षात्कारणीभवितुं तयोरनर्हत्वात् । मरुमरीचिकादौ जलाभावेपि जलज्ञानस्य वृषदंशादीनामालोकविरहेपि च सूचिभेद्यतमश्चयप्रदेशस्थवस्तुबोधस्य दर्शनात् । नातो ज्ञानस्यार्थालोकापेक्षानियमः। अनियतं च साधकतमं कुतः । नच प्रकाशनीयादादात्मलाभ एव ज्ञानस्य प्रकाशकत्वं न्याय्यम् । प्रकाशनीयादर्थादात्मानमलेभानस्यापि प्रदीपस्य प्रकाशकत्वसिद्धेः । जनकस्यैव च ग्राह्यत्वाङ्गीकारे कुतः स्मृतिः प्रमाणं स्यात् ? तस्या अर्थजन्यत्वाभावात् । जनकानि चेन्द्रियाणि कथं ग्राह्याणि न स्युः? कुतश्च खसंवेदनस्य ग्राहकत्वमुपपादकं स्यात् ? तस्य हि स्वरूपमेव ग्राह्यम्, नच तेन तदुत्पादः, स्वात्मनि क्रियाविरोधात् । तस्मात् स्वसामग्रीप्रभवयोः घटप्रदीपयोरिवार्थज्ञानयोः प्रकाश्यप्रकाशकभावोपपत्तेः न ज्ञानकारणमर्थः । अर्थाजन्यत्वेपि च ज्ञानस्य प्रतिनियतकर्मव्यवस्थाऽऽवरणक्षयोपशमलक्षणया योग्यतयैव सूपपादा । तदुत्पत्तावपि च योग्यतावश्यमेष्टव्या, अन्यथाऽशेषार्थसानिध्येपि कुतश्चनैवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतो विभागः ? । तदाकारता तु तावदाकारसङ्क्रान्त्यानुपपन्ना, अर्थस्य निराकारत्वप्र
न्याय०२