________________
(२).
मालाकरम्बितेऽनन्तानुबन्ध्यादिकषायपातालकलशावगाढमूले रागद्वेषावसायवाडवानलदन्दह्यमानानन्तजन्तुमालाकुले विचित्रकर्मपरिणत्यगाधसलिले भीमे भवार्णवे निमजतां तदुत्तितोषूणां जन्तूनां तदुत्तरणतन्त्रं तत्त्वावबोधतरण्ड एव सुक्षमः ॥ यदभ्यधायि, "विना ज्ञानं च चारित्रं, कर्मणां न विमोचनम् । न सम्यक्त्वं विना ते तु, तच्च तत्त्वावबोधतः॥१॥ ततश्च कर्मनिर्मुक्ते-र्भवेन्मुक्तिपुरी प्रति । गमनं भव्यजन्तूना, परमानन्ददायकम् ॥२॥ सा दृष्टिढिविधा प्रोक्ता, नैसर्गी चोपदेशजा। केषाश्चिन्मुक्तियोग्यानां, सा निसर्गाबुधैर्मता ॥३॥ केषाश्चिदुपदेशात् सो, मतैवं तत्त्वकोविदैः ॥ तत्त्वज्ञप्त्युपमस्तस्मा-दुपदेशो भवान्तदः ॥४॥"
स एव यथावस्थिततत्त्वावबोधः परमतनिराकरणपूवकस्वमतव्यवस्थापनरूपपरीक्षयैव सम्भवति॥ विबुधजनमान्या सा परीक्षा च ज्ञानपरोक्षज्ञप्तिवादिभाट्टानां स्वसमानाधिकरणस्वानन्तरसमयसमुत्पदिष्णुमानसेन ज्ञानज्ञानविदां यौगानामचेतनज्ञानवादिसाङ्ख्यानाञ्च लोकालोकवर्त्तिद्रव्यपर्यायात्मकानेकपदार्थसार्थविलोपकब्रह्माद्वैतवादिनांशून्यवादिसौगतानाञ्च निर्विकल्पकप्रत्यक्षप्रमाणत्ववादिनांताथागतानां स्वलक्षणावगाहित्वा