________________
(३०) प्रत्यक्षाभावेऽपि सकलरूप्यरूपिद्रव्यपर्यायवेदिनां प्रत्यक्षादेव तत्सिद्धिः । इत्थं चाकाशं द्रव्यमेव नास्तीत्यभिदधतां नव्यनैयायिकानां वचोऽप्यपास्तम् । ननु शब्दस्य परमाणुसमूहत्वे तत्र रूपादीनां घट इवापत्तिरिति चेत्, न, इष्टापत्तेः, आश्रयस्य च सूक्ष्मत्वात्तदग्रहः, तथा चोक्तं भगवत्यां त्रयोदशशतकसप्तमोद्देशके "रुवीभंते भासाअरूवीभासा,गोयमा, रूवीभासानो अरूबीभासत्ति” उक्तञ्च वर्गणानां वर्णादिचिन्ताधिकारे कर्मप्रकृतिवृत्योर्मलयगिरियशोविजयवाचकाभ्यामपि " तैजसप्रायोग्याद्याश्च वर्गणाः पञ्चवर्णाः पञ्चरसा द्विगन्धाश्च ज्ञातव्याः, स्पर्शचिन्तायान्तु चतुःस्पर्शाः"
इत्यादि। ननु शब्दस्य द्रव्यत्वे श्रोत्रस्य प्राप्यकारीन्द्रियत्वेन चन्दनाग्न्यादिकृतौ त्वचोऽनुग्रहोपघाताविवानुग्रहोपघातौ श्रोत्रस्य शब्दकृतौ स्यातामिति चेत्, दृश्यत एव श्रोत्रस्य शब्दकृतौ पाटववाधिर्यलक्षणावनुग्रहोपघातावित्यादि विस्तरेण श्रोत्रप्राप्यकारित्वव्यवस्थापनावसरे प्रागेव प्रतिपादितं, तच मण्डूकप्लुत्या कुशाग्रीयया धियाऽवधार्यताम् । ननु शब्दस्य द्रव्यस- १ रूपिणी भदन्त भाषा अरूपिणी भाषा । गौतम । रूपिणी भाषा नो अरूपिणी भाषेति ।