SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ (३४) रिगृहीताः, भाववाक्पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः” इत्यादि १॥ “दव्वे मणवइकाए जोग्गदव्वत्ति"मनोवाकाययोग्यानि द्रव्याणि द्रव्ययोगः, ए. तदुक्तं भवति जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि द्रव्ययोग” इत्यादि २॥ अत एव च वाग्योगलक्षणमपि सूत्रोक्तं सङ्गच्छते ॥ तथाहि " औदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स वाग्योग इत्यादि” विषमकलिकालकालिमकल्मषकर्दमकलङ्कप्रक्षालनजलनिधिप्रवाहवाक्प्रवाहा वादिवैतालाः शान्तिसूरिपादा उत्तराध्ययनीयचतुस्त्रिंशलेश्याध्ययनटीकायां जगुः । तथा च “ यया भाषाप्रायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यावलम्ब्य मुञ्चति सा भाषापर्याप्तिः” इति मलयगिरिभिर्भाषापर्याप्तेर्लक्षणं षड्विधपर्याप्तिस्वरूपोपवर्णनप्रसङ्गे प्रज्ञापनाटीकोक्तमपि सङ्गच्छते । तथा च पञ्चास्तिकायटीकाकृदाशावसनवचनमपि “तत एव अमूर्त्तत्वादेव चाशब्द धर्म " इत्यादि, “एवमयमुक्तगुणवृत्तिः परमाणुः शब्दस्कन्धपरिणतिशक्तिस्वभावाच्छब्दकारणम्” इत्यादि चशब्दस्य नभोधर्मत्वाभावःपरमाणुजन्यत्वञ्च प्रतिपादयति। एवञ्च भाषायाः
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy