________________
(११) गुणश्चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्, यो यश्चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमान् स स गुपः, यथा स्पर्शः, चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमांश्चायम्, चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वाद्गुणः, इति न्यायेन शब्दस्य गुणत्वसिद्धेरिति चेत्, न, अप्रयोजकत्वात् । अन्यथाऽऽकाशादिवदरूपित्वेनाऽऽत्मनोऽप्यचेतनत्वापत्तिः। न च शब्दस्य परमाणुसमूहत्वे घटादेवि चाक्षुषस्पार्शनापत्तिरिति वाच्यम्। तस्य सूक्ष्मपरिणामपरिणतत्वेन चक्षुःस्पर्शनायोग्यत्वात्। न चैवं श्रावणमपि माभूदिति वाच्यम्। अन्येन्द्रियगणाच्छ्रोत्रस्य प्रायः पटुतरत्वेन भाषापरिणतानां सूक्ष्माणामपि तेषां तद्ग्रहणयोग्यत्वात् । तथोक्तं भवविरहसूरिभिः शिष्यहितायामावश्यकवृत्ता “ तस्य (शब्दस्य) सूक्ष्मत्वाद्भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रस्य चान्येन्द्रियगणात् प्रायः पटुतरत्वात् स्पष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णातीत्यादि"॥ भणितमिदमर्थतः शब्दग्रहणप्रक्रियाप्रदर्शनद्वारा लोकप्रकाशे विनयविजयोपाध्यायैरपि, “ स्पर्शादिद्रव्यसङ्घाता-पेक्षया द्रव्यसंहतिः। बह्वी सूक्ष्मासन्नशब्द-योग्यद्रव्याभिवासिका ॥१॥