________________
(१२) तन्निवृतीन्द्रियस्यान्त-र्गत्वोपकरणेन्द्रियम् ॥ स्पृष्ट्वापि सद्यः कुरुते-भिव्यक्ति सा स्वगाचराम्॥२॥ अन्येन्द्रियापेक्षया च, श्रवणं पटुशक्तिकम् ॥ ततः स्पृष्टानेव शब्दान्, गृह्णातीत्युचितं जगुः॥३॥"
न च श्रोत्रेन्द्रियं द्रव्याग्राहकं रूपस्पशाग्राहकबहिरिन्द्रियत्वाद्रसनावदित्यनेनार्थतः शब्दस्य द्रव्यत्वे प्रतिक्षिप्ते क्रियात्वादेरसम्भवेन गुणत्वसिद्धिरिति साम्प्रतम्।शब्दो द्रव्यं क्रियावत्त्वात् इत्यनुमानेन द्रव्यत्वसिद्धेः श्रोत्रसंयोगेनैव तद्ग्रहात् पूर्वोक्तानुमानस्याप्रयोजकत्वात्, न च शब्द क्रियावत्त्वासिद्धिः, संहरणवायुवहनादिना तत्सिद्धेः । तथा चोक्तं तत्त्वार्थटीकायां सिद्धसेनगणिभिः। “स चायाति श्रोत्रदेशमाशु पुद्गलमयत्वे सति सक्रियत्वात्, सक्रियत्वं वायुनोहह्यमानत्वाद् धूमस्येव, गृहादिषु पिण्डीभवनात्, विशेषतश्च द्वारानुविधानात् तोयवत्,प्रतिघाताच्च नितम्बादिषु वायुवत् ” इत्यादि, आह च भाष्यसुधाम्भोनिधिभगवाञ्जिनभद्रगणिक्षमाश्रमणो गन्धशब्दयोर्घाणश्रवणदेशप्राप्त्या हेतुत्वप्रतिपादनमिषेण तयोः पुद्गलमयत्वसाधनप्रसङ्गे।