SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ (१३) “ज' ते पोग्गलमइया, सक्किरिया वायुवहणाओ। धूमो व्व संहरणओ, दाराणुविहाणओ विसेसेणं ॥ तोयं व णितंबाइसु, पडिघायाओ अ वाउव्वत्ति॥१॥" उक्तश्चायमों विनयविजयोपाध्यायैरपि, “गन्धादिद्रव्यवहाता-नुकूल्येन प्रसर्पणात्" इत्यादि। तथा च शब्दः क्रियावान् संहरणादिमत्त्वात् इत्याद्यनुमानतःप्रत्यक्षतोऽपि चागतोऽयं शब्द इत्यादिना क्रियावत्त्वसिद्धेः । न च तत्प्रयोजकवायुसंहरणान्नोक्तप्रक्रिया सङ्गच्छत इति वाच्यम्, मृदङ्गध्वन्यादिषु वायोरनुपलम्भात्तत्प्रतिध्वनेरनुपपत्तेः, स्त्रीपुंनपुंसकोच्चरितशब्दप्रतिध्वनिषु वैजात्यानुपपत्तेश्चेत्यादिक बहुतरमूड्नीयम् तत्तु वक्ष्यत उत्तरत्र इहैव । न च वायवौपाधिक्येव शब्दे गतिरनुभूयमानेति वाच्यम् । आगतेयमिन्द्रनीलप्रभेत्यादिवत्तस्या औपाधिकोत्वासम्भवात् । किञ्च शब्दे क्रियानभ्युपगमे तस्य श्रावणमप्यनुपपन्नं शब्दस्य तत्रानागतेःश्रोत्रस्य च शब्ददेशेऽगमनात् । तथा चोक्तं महामहोपाध्यायन्यायविशारदन्यायाचार्यभगवद्यशोविजयवाचकैस्स्वकृतन्यायालोके प्रथमप्रकाश आत्मविभुत्वखण्डने “ अन्यथा १ यत्तौ ( गन्धशब्दो) पुदालमयो, सक्रियौ वायुवहनात् ॥ धूमवत्संहरणतः (गृहादिषु पिण्डीभवनात्) द्वारानुविधानतो विशेपण ॥ तोयवत् नितम्बादिः (गिरिगुहादिषु) प्रतिघातात् वायुवदिति ॥ विश० गा० २०६, २०७॥
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy