________________
अहम् । अथागमः। आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । उपचारादातवचनं च । न च व्याप्तिग्रहबलेनार्थप्रतिपादकत्वात् धूमवदस्यानुमानेऽन्तर्भावः, कूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणैवासार्थबोधकत्वात् । यथास्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवण आप्तः । वर्णपदवाक्यात्मकं वचनम् । वर्णोऽ. कारादिः पौगलिका, न पुनराकाशगुणः, प्रत्यक्षत्वविरोधात् । पदं सङ्केतवत् । अन्योन्यापेक्षाणां पदानां समुदायो वाक्यं । स्वाभाविकसामर्थ्यसमयाभ्यां चार्थबोधं शब्दो विधत्ते । तस्स चार्थावबोधकत्वं प्रदीपवत् स्वाभाविकम् । यथार्थायथार्थत्वे पुनः पुरुपगुणदूषणे अनुसरतः । अयं च शब्दो विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुव्रजति। तथैव परिपूर्णार्थप्रापकत्वलक्षणता. विकप्रामाण्यनिर्वाहात् । कचिदेकभङ्गदर्शनेपि व्युत्पन्नधियामितरभङ्गाक्षेपध्रौव्यात् । यत्र तु घटोस्तीत्यादिलोकवाक्ये सप्तभङ्गीस्पर्शशून्यता, तत्रार्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येपि तत्त्वतो न प्रामाण्यमिति । अथ सप्तभङ्गी प्रोच्यते । एकत्र वस्तुनि एकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी । इयं च सप्तभङ्गी वस्तुनि प्रतिपर्यायं सप्तविधधर्माणां सम्भवात् सप्तविधसंशयोत्थापितसप्तविधजिज्ञासामूलसप्तविधप्रश्नानुरोधादुपपद्यते । तत्र स्थादस्त्येव घटः इति प्राधान्येन विधिकल्पनया प्रथमो भङ्गः । स्यात् कथञ्चित् खद्रव्यक्षेत्रकालभावापेक्षयेति । एवं स्थानास्त्येव घटः इति प्राधान्येन निषेधकल्पनया द्वितीयो भङ्गः । नचासत्त्वं काल्पनिकम् , सत्त्ववत्तस्य खातव्येणानुभवात् । अन्यथा विपक्षासत्वस्य तात्त्विकस्साभावेन हेतोस्वरूप्यव्याघातापत्तेः । सादस्त्येव स्मानास्त्येव घटः इति प्राधान्येन क्रमिकविधिनिषेधकल्पनया