SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ (२२) मूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्तमेवेति, एवं शब्दोऽपि यद्याकाशगुणस्तर्हि तस्यामूर्तत्वाच्छब्दस्यापि तद्गुणत्वेनामूर्तताप्रसङ्गः, तथा च भणितं शीलागाचार्यपादैः सूत्रकृताख्यद्वितीयाङवृत्तौ "शब्दश्चाकाशस्य गुण एव न भवति तस्य पौगलिकत्वादाकाशस्य चामूर्तत्वात्” इत्यादि। न चेदं नीतिसङ्गतम् ,अमूतत्वलक्षणायोगात् । तथाहि मूर्तिविरहो ह्यमूर्त्तता । नन्वभीष्टमेव तस्यामूर्तत्वमिति चेत्, न, तत्र शब्दे स्पर्शवत्वेन मूर्ततायास्सिद्धत्वात् । तथाहि स्पर्शवन्तः शब्दाः तत्सम्पर्के उपघातदर्शनाल्लोष्ठुवत्, न चात्रासिद्धिदोषदुष्टो हेतुः, यतस्तत्कालजन्मिनो बालस्य कर्णस्थानसन्निधौ गाढास्फालितझल्लादिध्वनिभिः श्रोवस्फोटो दृश्यते, तथा चोक्तमावश्यकवृत्तौ मलयगिरिपूज्यैः "दृश्यते हि सद्योजातबालकानां कर्णदेशाभ्यर्ण गाढास्फालितझल्लरीझणत्कारश्रवणतः श्रवग्रस्फोटः” इत्यादि, न चेत्थं श्रवणस्फोटादिरूपोपघातकृत्त्वमस्पर्शवत्वे सति सम्भवति यथा नभसः, ततो विपक्षावृत्तित्वात् न व्यभिचारित्वमपि हेतोः। एवञ्चाभिघातादिनापि स्पर्शवत्वं शब्दस्य । तथा हि, शब्दाः स्पर्शवन्तः अभिघाते गिरिगह्वरादिषु शब्दोत्थानात् उपलखण्डवत्, वादिप्रतिवादिनोरुभयोरपि सिद्धोऽयं
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy