SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ हरिभद्रसूरिभिः प्रोक्तं सगच्छते॥ इत्थञ्च श्रोत्रस्य प्राप्यकारित्वेन तस्य व्यञ्जनावग्रहो न चक्षुर्मनसोरित्यप्युपपद्यते । तथा चोक्तं चतुश्चत्वारिंशदुत्तरचतुर्दशशतग्रन्थसूत्रणसूत्रधारैः श्रीमद्धरिभद्रसूरिभिः शिष्यहिताख्याया. मावश्यकटीकायां "शब्दादिपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति अयश्च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः अप्राप्तकारित्वादिति ॥एतेन श्री श्रमणसङ्घसमुद्रोत्कर्षेन्दुभिःश्रीमद्यशोविजयवाचकपुङ्गवैरपि व्यञ्जनेन शब्दादिपरिणतद्रव्यनिकुरुम्बेण व्यञ्जनस्य श्रोत्रेन्द्रियादेरवग्रहःसम्बन्धोव्य जनावग्रह इत्यादिज्ञानबिन्द्राख्यप्रकरणे व्यञ्जनावग्रहव्युत्पत्तियां प्रतिपादिता साऽपिसूपपादा।व्यक्तीकृतश्चैषोऽर्थः द्रव्यलोकप्रकाशेतृतीयसर्गेश्रीविनयविजयोपाध्यायैः, “प्राप्यार्थावच्छेदकत्वात्, श्रवणादीनि जानते। . अङ्गुलासङ्ख्येयभागा-दपि शब्दादिमागतम् ॥१॥ चतुर्णामत एवैषां, व्यञ्जनावग्रहो भवेत्। दृष्टान्तानव्यमृत्पात्र-शयितोद्बोधनात्मकात् ॥२॥ यथा शरावकं नव्यं, नैवैकेनोदबिन्दुना ॥ क्लियते किन्तु भूयोभिः, पतद्भिस्तैर्निरन्तरम् ॥३॥ एवं सुप्तोऽपि नैकेन, शब्देन प्रतिबुद्ध्यते ॥ किन्तु तैः पञ्चषैः कर्णे,शब्दद्रव्य ते सति॥४॥इत्यादि
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy