________________
अहम् । उक्तं प्रत्यक्षम् । अथ परोक्षं वक्ष्यामः । अस्पष्टं परोक्षम् । उक्तलक्षणस्पष्टत्वविरहितं सम्यग्ज्ञानं परोक्षमित्यर्थः । तस्य पश्च प्रकाराः । स्मरणम्, प्रत्यभिज्ञानम्, तर्कः, अनुमानम्, आगमश्चेति । तत्र वासनोद्बोधोद्भवमनुभूतार्थविषयं तदित्याकारं स्मरणम् । यथा तत्तीर्थकरबिम्बमिति । नचेदमप्रमाणम्, अप्रामाण्यप्रसाधकन्यायाभावात् । प्रमाणान्तरसाधारणाविसंवादित्वस्यात्रापि चकासनात् । विसंवादित्वेनाप्रामाण्ये तथाभूतस्याध्यक्षादेरपि तत्प्रसङ्गः। अभूद् वृष्टिः, उदेष्यति शकटम् इत्याद्यतीतानागतविषयानुमानदर्शनात् अनर्थजत्वमप्यप्रामाण्यहेतुतयोपन्यासाना भ्रान्ता एव । अप्रामाण्यं च स्मृतेरभिमेनानानां सकलानुमानोच्छेदलक्षणोऽभिशापो दुर्निवारः, तया व्यारविषयीकारे तदुत्थानासम्भवात् “लिङ्गग्रहणसम्बन्धस्मरणपूर्वकमनुमानम्" इति हि सर्वपार्षदम् । अनुभूतार्थविषयत्वमात्रेणामुष्य प्रामाण्यानभ्युपगमे तु अनुमानाधिगतकृशानुगोचरप्रत्यक्षमपि कुतः प्रमाणं स्यात, असत्यतीतेऽर्थे प्रवर्त्तमानत्वात्तदप्रामाण्ये प्रत्यक्षस्थापि तत्प्रसङ्गः। तदर्थस्यापि तत्कालेऽसत्त्वात् । निराकृष्महि चार्थजन्मादि ज्ञानस्य प्रागेवेति । अनुभवसरणसम्भूतं तिर्यगूर्ध्वत्वसामान्यादिविषयं संकलनात्मकं सम्यग्ज्ञानं प्रत्यभिज्ञानम् । यथा स एवायं घटा, गोसदृशो गवयः, गोविलक्षणो महिषः, इदमसादल्पं महत्दूरमासन्नं वेत्यादि । सादृश्यविषयमुपमानं प्रमाणमातस्थाना वैलक्षण्यादिविषयं प्रमाणान्तरं कथं न कक्षीकुर्युः । एवं च विलीयेत प्रमाणनियमव्यवस्था। ननु तदिति स्मरणम्, इदमिति प्रत्यक्षम्, इति द्वे एव ज्ञाने, न ताभ्यामन्यत् प्रत्यभिज्ञानाख्यं प्रमाणमस्तीति तन, उक्तज्ञानयुगलेन प्रत्यभिज्ञानविषयस्याशक्यग्रहणत्वात् । पूर्वोपराकारैकधुरीणं हि द्रव्यं प्रत्यभिज्ञानविषयः। न खलु सरणमेवातीत