Book Title: Chatusharan Prakirnakam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
Catalog link: https://jainqq.org/explore/022604/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ əəəə. श्री हर्षपुष्पामृत जैन ग्रन्थमाला-ग्रन्थाङ्कः १३ε 5 श्री महावीर जिनेन्द्राय नमः 5 ।। पू. आ. श्रीविजयकर्पूरामृतसूरिभ्यो नमः ।। 24600 सावचूर्णिकं श्री महावीरस्वामिहस्तदीक्षितश्री वीरभद्रमुनिवर्यप्रणीतं चतुःशररण- प्रकीर्णकम् सम्पादकः संशोधकश्व तपोमूर्ति-पूज्याचार्यदेवश्री विजयकर्पू रसूरीश्वर पट्टधरहालारदेशोद्धारक पूज्याचार्यदेवश्री विजयामृतसूरीश्वरपट्टधरः पूज्याचार्यदेवश्री विजयजिनेन्द्रसूरीश्वरः 卐 पूज्याचार्यदेवश्री विजय जिनेन्द्रसूरीश्वर - सदुपदेशेन जेतपुरवास्तव्य श्रेष्ठिवर्यश्री चोकसी जयंतिलाल हीराचन्द वसा (राजकोट) इत्यनेन प्रदत्तसहाय्येन ....(७) 卐 प्रकाशयित्री श्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल - शांतिपुरी (सौराष्ट्र) Page #2 -------------------------------------------------------------------------- ________________ श्री हर्षिपुष्षामूलन ग्रन्थमाला-ग्रन्थाङ्कः १ ....... ॥ पू. आ. श्रीविजन समतपूरिभ्यो नमः ॥ सावचूर्णिकं श्री महावीरस्वामिहस्तदीक्षित श्री वीरभद्रमुनिवर्यप्रणीतं SOOOOOOOOO चतुःशरण-प्रकीर्णकम सम्पादकः संशोधकश्च तपोमूर्ति-पूज्याचार्यदेवश्री विजयक' रसूरीश्वर-पट्टधरहालारदेशोद्धारक-पूज्याचार्यदेवश्री विजयामृतसूरीश्वर पट्टधरः पूज्याचार्यदेवश्री विजयजिनेन्द्रसूरीश्वरः .......................................... .......................... पूज्याचार्यदेवश्री विजय जिनेन्द्रसूरीश्वर-सदुपदेशेन जेतपुरवास्तव्य श्रेष्ठिवर्यश्री चोकसी जयंतिलाल होराचन्द वसा (राजकोट) इत्यनेन प्रदत्तसहाय्येन 卐 प्रकाशयित्रीश्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल-शांतिपुरी (सौराष्ट्र) OOOOOOOOO .............. Page #3 -------------------------------------------------------------------------- ________________ प्रकाशिकाश्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखावावल-शांतिपुरी (जिल्लो-जामनगर) सौराष्ट्र - वीर सं० २५११ वि० सं० २०४१ प्रथमावृत्तिः प्रतयः ७५० १९८५ 卐 आभार म अमारी ग्रन्थमाला तरफथी आ सावचूरिक श्री चतुःशरणप्रकीर्ण सूत्र प्रगट करीए छीए. परम पूज्य हालारदेशोद्धारक पूज्याचार्यदेवश्री विजयअमृतसूरीश्वरजी महाराजाना पट्टधर पूज्य आचार्यदेवश्री विजयजिनेन्द्रसूरीश्वरजी महाराजनी निश्रामां जेतपुर (जुनागढ) मुकामे चोकसी जयंतिलाल हीराचन्द वसा तरफ थी पोते भरावेला श्री धर्मनाथ प्रभुजीनी महा सुद १० ना भव्य शांति. स्नात्रादि महोत्सव साथे प्रतिष्ठा प्रसंगे आ ग्रन्थ प्रगट करवा शुभ भावना थतां तेमना तरफथी आ ग्रन्थ प्रकट करी तेमने धन्यवाद आपवा साथे आभार मानीए छीए. ता० १-८-८५ शाक मार्केट सामे. जामनगर (सौराष्ट्र) ली०मेहता मगनलाल चत्रभुज मुद्रकगौतम आर्ट प्रिन्टर्स, नेहरु गेट बहार, ब्यावर (राज.) Page #4 -------------------------------------------------------------------------- ________________ * प्रस्तावना प्रभु महावीर देवना हस्तदीक्षित पूज्य मुनिराजश्री वीरभद्र गणिए आ चउशरण पयन्ना सूत्र रचेल छे. तेमणे बी आउर पच्चक्खाण पयन्ना सूत्र रचेल छे. चउशरण पयन्ना सूत्रनी ६३ गाथा छे. तेनी उपर अज्ञातकर्तृक अवचूरि छे. आ पयन्नामां चउशरण स्वीकार, दुष्कृत गर्दा अने सुकृत् अनुमोदना आ त्रण विषयो उपर सुन्दर आराधक भावने जगाडनारी प्रसादी पीरसाई छे. ४५ आगममांनुं आ पण एक सूत्र छे. जेनो दश पयन्ना सूत्रोमा समावेश थाय छे. जिनेश्वर देवना वैनयिकी औत्पातिकी आदि बुद्धिवाला तथा प्रत्येक बुध्य जेटला मुनिओ होय तेटला मुनिओ एक-एक पयन्नो बनावे छे. आ सूत्रना कर्ता श्री वीरभद्र गणि पण प्रभुजीना स्वहस्तदीक्षित शिष्य छे. चार शरण स्वीकारादि आराधना माटे अति उपयोगी ग्रन्थ छे. श्री हा. वो. ओ. तपागच्छ जैन उपाश्रय ४५, दिग्विजय प्लॉट जामनगर (सौराष्ट्र) सं० २०४१ द्वि. श्रा. सुद ५ मंगलवार -जिनेन्द्रसूरि Page #5 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् पृष्ठ पंक्तिः २४ १६ अशुद्धं शुद्धम् ०क्रिय णां ०क्रियाणां परणीय करणीय स्नादि० ०स्नानादि० आचार्यन्ते आचर्यन्ते चत्वारस्तपः चत्वारस्तपः ०रभ्य० • रम्य त्यर्थः प्रवजित- ०प्रवजितसंघप्रत्यनीकतां संघ प्रत्यनीकता व्यध्यशीतिसंख्याः ध्यशीतिसंख्याः १४ त्य ३५ ४१ ४६ १३ २१ १२ Page #6 -------------------------------------------------------------------------- ________________ अर्हम् । वागडदेशोद्धारक पू० आ० श्रीविजयकनकसूरिभ्यो नमः अथ सावचूर्णिकं श्रीमहावीरहस्तदीक्षितवीरभद्रमुनिवर्यप्रणीतं चतुःशररणप्रकीर्णकम् इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभावमङ्गलकारणद्रव्य मङ्गलभूतगजादि १४ स्वप्नोचारव्याजसर्वतीर्थकृद्गुणस्मरणवर्तमान तीर्थाधिपति - श्री वीरन मस्करणरूपं मङ्गलत्रयमाह - 'सावज्जे' ति, अथवा षडावश्यकयुतस्यैव प्रायश्चतुःशरणप्रतिपत्त्यादियोग्यता स्यादतः प्रथमं षडावश्यकमाह सावज्जजोगविरई १ उत्तिण २ गुणवओ अ पडिवन्ती ३ । खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥ १॥ Page #7 -------------------------------------------------------------------------- ________________ 'सावज्जे'त्यादि सहावयेन-पापेन वर्तन्ते इति सावद्याः योगा-मनोवाकायरूपा व्यापारास्तेषां विरतिः-निवृत्तिः सावद्ययोगविरतिः सा सामायिकेन क्रियते इत्यध्याहारः १, उत्कीत्तनं-जिनगुणानामुत्कीर्तना, सा चतुर्विंशतिस्तवेन क्रियते २, गुणा-ज्ञानदर्शनचारित्राद्याः ते विद्यन्ते येषां ते गुणवन्तो-गुरवस्तेषां प्रतिपत्तिः-भक्तिगुणवत्प्रतिपत्तिः सा वन्दनेन क्रियते ३, स्खलनं स्खलितं-आत्मनोऽतिचारापादनं तस्य निन्दनं-निन्दना न पुनः करिष्ये इत्यभ्युपगमनं सा प्रतिक्रमणेन क्रियते ४, व्रणस्य-अतिचाररूपभावव्रणस्य चिकित्साप्रतीकाररूपा सा कायोत्सर्गेण क्रियते ५, गुणा-विरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारणा सा प्रत्याख्यानेन क्रियते ६, 'चैवेति षण्णामपि समुच्चये ॥ १॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्धयादिरूपं फलं चाहचारित्तस्स विसोही कीरइ सामाइएण किल इहयं । सावज्जेअरजोगाण वजणाऽऽसेवणत्तणओ ॥२॥ ____ 'चारित्ते'त्यादि चारित्रस्य-चारित्राचारस्य पश्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधिः-निर्मलता क्रियते, केन ?-सामायिकेन-समभावलक्षणेन 'किले'ति सत्ये' 'इहयंति इहैव जिनशासने नान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषाया अप्यभावात्, कथं सामायिकेन विशोधिः Page #8 -------------------------------------------------------------------------- ________________ क्रियते १ इत्याह- 'सावज्जे 'त्ति सावद्याः - सपापा इतरे च निरवद्या ये योगाः - कायादिव्यापारास्तेषां यथासङ्ख्यं ये वर्जनासेवने ताभ्यां वर्जनासेवनातः सावद्यानां वर्जनतः इतराणां त्वासेवनतश्च तेन विशोधिः क्रियते इति तात्पर्यार्थः ॥ २ ॥ उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धि माह दंसणायारविसोही चवीसाय (इ) त्थएण किज्जइ अ । अच्चब्भुअगुणकित्तणरूवेण जिणवरिंदाणं ॥ ३॥ 'दंसणे' त्यादि, दर्शनं - सम्यक्त्वं तस्याचारो - निश्शङ्कितेत्याद्यष्टविधः तस्य विशोधिः- निर्मलता चतुर्विंशतेरात्मनां - जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विंशत्या - त्मस्तवो- लोगस्सेत्यादिरूपस्तेन क्रियते, 'चउवीसाइत्थएणे 'ति पाठे जिनानां चतुर्विंशत्याः स्तवेनेत्यर्थः, चकारो द्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह- 'अच्चब्भुअ' इत्यादि, अत्यद्भुताः - सर्वातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्त्तनं-वर्णनं तद्रूपेण, केषां तदित्याह - ' जिणवरिंदाणं'ति जिना - रागादिजयादुपशान्तमोहादयस्तेषां मध्ये वराः - केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः ॥ ३ ॥ उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचारयोश्च विशेषेण विशुद्धिमाह - · Page #9 -------------------------------------------------------------------------- ________________ नाणाईआ उ गुणा तस्संपन्नपडिवत्तिकरणाओ। वन्दणएणं विहिणा कीरइ सोही उ तेसिं तु ॥४॥ ___ 'नाणाईमा' इति 'नाण'त्ति ज्ञानाचार:- कालविनयाघष्टविधः आदिशब्दादर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव वन्दनका) नान्यो ज्ञानवानपि पार्श्वस्थादिय॑वहारतः चारित्रवानपि निह्नवादिरिति ज्ञापनार्थः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैर्ज्ञानादिगुणैस्सम्पन्ना-युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिः-भक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन ?-वन्दनकेन, कथं ?विधिना-द्वात्रिंशदोषरहिततया पश्चविंशत्यावश्यकविशुद्धतया च, 'तेसिं तु'त्ति तेषां-ज्ञानाचारादीनां तुः पुनरर्थे चारित्राचारदर्शनाचारयोः प्राक्शोधितयोरपि पुनर्विशेषेण शोधिः क्रियते इत्यर्थः ।। ४ ॥ उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाह-- खलियस्सय तेसिं पुणो विहिणाजं निंदणाइ पडिकमणं। तेणं पडिकमणेणं तेसिपि य कीरए सोही ॥५॥ चरणाइयाइया(ईयारा)णं जहक्कम वणतिगिच्छरूवेणं । पडिकमणामुडाणं सोही तह काउसग्गेणं ॥ ६॥ स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसञ्जाता Page #10 -------------------------------------------------------------------------- ________________ पराधस्य तथा 'तेसिन्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं निंदणाई'इति यन्निन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दाद्गहादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकारस्खलितस्य यन्निन्दनादिकरणं-तस्माद्दोषजातान्निवर्तनं तत्प्रतिक्रमणमुच्यते इति शेषः, प्रतीपं क्रमणं प्रतिक्रमणं इति व्युत्पत्तिः, अतः कारणात्तेन प्रतिक्रमणेन 'तेसिं पियत्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते विशोधिः-निमलतेति ॥५॥ 'चरणाइय'त्ति चरणं--चारित्रं अतिगच्छन्ति-अतिक्रामन्तीति चरणातिगाः, अतिचारा इति दृश्यं, ते आदौ येषां ते चरणातिगादिकाः--सर्वेऽप्यतिचारास्तेषां चरणातिगादिकानां कथंभूतानां -प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामद्धेशुद्धानां वा शुद्धिस्तथैव--प्रागुक्तप्रकारेण क्रियते, केन ?--कायोत्सर्गेण, किंभूतेन ?-'जहकमं वणतिगिच्छत्ति यथाक्रम-क्रमप्राप्तेन 'आलोअणपडिकमणे' इतिगाथोक्तदशविधप्रायश्चित्तमध्ये पञ्चमप्रायश्चित्तेन 'वण'त्ति द्रव्यभावभेदेन द्विधा व्रणं, तत्र द्रव्यव्रणः--कण्टकभङ्गादिजनितो भावव्रणस्तु अतिचारशल्यरूपस्तस्य भावव्रणस्य चिकित्सा-प्रतीकारः सैव रूपं यस्य कायोत्सर्गस्य स व्रणचिकित्सारूपस्तेन, कायोत्सर्गणातिचाराः Page #11 -------------------------------------------------------------------------- ________________ शोध्यन्ते इति भावो, महन्निर्जराकारणत्वात् तस्य, प्राक् 'नाणाइआ ' इत्यत्र ज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तं 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच्च विवक्षया चरणादय इति ॥ ६ ॥ एवं गाथापञ्चकेना[ति]चारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाहगुणधारणरूवेणं पञ्चक्खाणेण तवइयारस्स । विरियायारस्स पुणो सव्वेहिवि कीरए सोही ॥ ७ ॥ 'गुणधारणे' त्यादि, गुणा - विरस्यादय उत्तरोत्तरा यथा विरतेराश्रवद्वारस्थगनं तत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादतुलोपशमस्तस्मात्प्रत्याख्यानशुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्माकर्म विवेकस्तस्मादपूर्वकरण म पूर्व करणात्केवलज्ञानं ततश्च मोक्षो भवतीति तेषां गुणानां धारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन - 'अणागयमइक्कतं' इत्यादिदशविधेन अथवा पञ्चमहाव्रतद्वादशश्राद्धव्रतनमस्कार सहिता दिदशप्रत्याख्यानरूप सप्तविंशतिविधेन वा तपआचारातिचारस्य - 'बारसविहंमिवि तवे' इति गाथोक्तस्य शुद्धिः क्रियते इति संटकः, 'विरियापारस्स'त्ति विशेषेण ईरयति - प्रेरयति आत्मानं तासु तासु क्रियास्विति वीर्यं --तपोवीर्य - गुणवीर्य - चारित्रवीर्य -- समाधिवीर्य - आत्मवीर्यभेदभिन्नं पञ्चविधं तस्याचारो वीर्याचारः 'अणिमूहिअबलविरिए' इत्यादिकस्तस्य सर्वैरपि Page #12 -------------------------------------------------------------------------- ________________ पूर्वोक्तैः षड्भिरप्यावश्यकैः शुद्धिः क्रियते, अन्यूनाधिकावश्यककरण प्रयत्नेन वीर्याचारशुद्धिर्भवत्येव, महाकर्मनिर्जराहेतुत्वात् ॥ ७ ॥ उक्ता आचारपञ्चकशुद्धिः, अथ सर्वजिन - गुणोत्कीर्तनगर्भ मङ्गलभूतं गजादिस्वप्न संदर्भमाह गय १ वसह २ सोह ३, अभिसेय ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुम्भं ९ । पउमसर १० सागर ११ विमाणभवण १२ रयणुच्चय १३ सिहिं १४ च ॥ ८ ॥ गाथा सुगमा, नवरं 'अभिसेअ' त्तिं चतुर्थस्वप्ने पार्श्वद्वयवर्तिकरिकलभशुण्डादण्ड विधृतकलशयुगला भिषिच्यमानां लक्ष्मीं जिनमाता पश्यति, 'विमाणभवण'त्ति द्वादशस्वप्ने देवलोकाततीर्थकृञ्जननी विमानं पश्यति नरकागतजिनजननी तु भवनं, विमानभवनयोराकारमात्रकृत एव विशेषः, गजदर्शनात्स्वाम्यपि तद्वदतुल पराक्रम निधिर्भावी, वृषभदर्शनात् महामोहपङ्कमनधर्मरथधुरोद्धरणक्षमो भरते धर्मवीजवापनिमित्तं च भावीति स्वप्नैरपि जिनगुणाः सूच्यन्ते, चतुर्दशस्वप्नसंख्यया तु चतुर्दशरज्ज्वात्मकस्यापि लोकस्योपरिवर्त्ती पुत्रो भविष्यतीति निवेद्यते इति सर्वतीर्थकृद्गुणवर्णनरूपं स्वप्नमङ्गलमुक्तम् ॥ ८ ॥ अथ श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावनां चाह - Page #13 -------------------------------------------------------------------------- ________________ अमरिंद-नरिंद-मुणिंद-वंदिरं वंदि महावीरं। कुसलाणुबंधि-बन्धुर-मज्झयणं कित्तइस्सामि ॥९॥ 'अमरिंदनरिंद'त्ति उपक्रमकृतेनापमृत्युना न म्रियन्ते इत्यमरास्तेषां इन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्रा मुनीन:मिन्द्रा मुनीन्द्राः द्वन्द्वः तैर्वन्दितं 'वन्दिउंति वन्दित्वा, कं ?--'महावीरं' महद्वीयं यस्यानन्तबलत्वाद्देवकृतपरीक्षायामपि मनागप्यक्षुभितत्वाच्च महावीरस्तं 'कुसलाणुबंधि'त्ति कुशलो-मोक्षस्तं अनुवन्धीति--परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा षन्धुरं-मनोज्ञ, जीवानां ऐहिकामुष्मिकसमाधिहेतुत्वात, किं ?--अधीयते--ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययनं--शास्त्र, कीर्तयिष्यामि--कथयिष्यामीति सम्बन्धः ॥ ६ ॥ अथ प्रस्तुताध्ययनार्थाधिकारानाहचउसरणगमण १ दुक्कडगरिहा २ सुकडाणमोअणा ३ चेव एस गणो अणवरयं कायव्वो कुसलहेउत्ति ॥१०॥ ___ 'चउसरण'त्ति चतुर्णामहत्सिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्दा-गुरुसाक्षिकमास्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना--भव्यं मयतत्कृतमिति तृतीयोऽधिकारः, 'चैवेति समुच्चये, एषः-अयं गणः-त्रयाणां समुदायोऽनवरतं--सततं कर्तव्यः--अनुसरणीयः कुशलो-मोक्षस्तस्य कारणमयमितिकृत्वा ॥ १० ॥ अथ चतुःशरणरूपं प्रथमाधिकारमाह Page #14 -------------------------------------------------------------------------- ________________ अरिहंत १ सिद्ध २ साहू ३ केवलिकहिओ सुहावहो धम्मो ४ । एए चउरो चउगह हरणा सरणं लहइ धन्नो ॥ ११॥ 'अरहते'त्यादि, देवेन्द्रकृतां पूजामहन्तीत्यर्हन्तः १ तथा सिध्यन्ति--निष्ठितार्था भवन्तीति सिद्धाः २ तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः ३ तथा दुगतौ पतन्तं प्राणिनं धरतीति धर्मः, किंभूतः -- केवलिभिः-ज्ञानिभिः कथितः--प्रतिपादितः केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरासमाह, पुनः कथम्भूतो धर्म: ?-सुखमावहति-परम्परया चटत्प्रकर्ष प्रापयतीति सुखावहः, अनेन इहलोकेऽपि मिथ्यादृष्टिधर्मस्य भैरवपतन-शिरःक्रकचदापनादि-दुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तन्निषेधमाह, एतेऽर्हत्सिद्धसाधुधर्माश्चत्वारश्चतसृणां गतीनां समाहारश्चतुर्गति-नरकतिर्यमरामरलक्षणं हरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः ॥ ११ ॥ अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽहअह सो जिणभत्ति-भरुत्थरंत-रोमंचकंचुअ-करालो । पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥१२॥ Page #15 -------------------------------------------------------------------------- ________________ 'अह सो' त्ति, अथ सः-शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो ?-जिनेषु भक्तिस्तस्या भरःप्राबल्यं तस्माज्जिनभक्तिभरात 'उत्थरंत'त्ति अवस्तृणन्-- उदयं गच्छन् योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कञ्चुको रोमाञ्चकंचुकस्तेन करालः -अन्तरङ्गशत्रूणां भीषणः, तथा प्रकृष्टो हर्षः प्रहषः तस्माद्यत्प्रणतं--प्रणामस्तेन उन्मिश्रं-व्याकुलं यथा भवति एवं, यद्वा प्रहर्षवशाद्योऽसौ प्रणय:-आनन्दाश्र-गद्गदस्वरस्तेनोन्मित्रं, क्रियाविशेषणमेतत्, तथा शिरसि-- मस्तके कृताञ्जलिः कृतकरकुड्मलः सन् भणति ॥ १२ ॥ अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाहरागद्दोसारीणं हंता कम्मट्ठगाइ अरिहंता। विसयकसायारीणं अरिहंता हुंतु मे सरणं ॥ १३ ॥ रायसिरिमवकमि(सित्तातवचरणं उच्चरं अणुचरिता। केवलसिरिमरिहंता अरिहंता हुतु मे सरणं ॥ १४ ॥ थव(थुइ)वंदणमरिहंता अमरिंद-नरिंद पूअमरिहंता। सासय-सुहमरहंता अरिहंता हुंतु मे सरणं ॥१५॥ परमणगयं मुणंता जोइंद-महिंद-झाणमरिहता। धम्मकहं अरहंता अरिहंता हुतु मे सरणं ॥ १६ ॥ सव्वजिआणमहिंसं अरहंता सञ्चवयणमरहंता। भव्वयमरहंता अरिहंता हुंतु मे सरणं ॥ १७ ॥ Page #16 -------------------------------------------------------------------------- ________________ ११ ओसरणमवसरित्ता चउतीसं अइसए निसेवित्ता । धम्मकहं च कहित्ता (कहंता) अरिहंता हुंतु मे सरणं । १८ । गाइ गिराणेगे संदेहे देहिणं समं छित्ता (समुच्छित्ता)। तिहुअणमणुसासंता अरिहंता हुंतु मे सरणं ॥ १९ ॥ वयणामएण भवणं निव्वाविंता गुणेसु ठावंता । जिअलोअ मुद्धरंता अरिहंता हुंतु मे सरणं ॥ २० ॥ अच्चन्भुअ-गुणवंते निअजस-ससहरपसाहिय (पपासिय) दिअंते । निअय-मणाइअणन्ते पडिवन्नो सरणमरिहंते ॥ २१ ॥ उज्झिअ - जरमरणाणं समत्त - दुक्खत्त - सत्तसरणाणं । तिहुअण-जणसुहयाणं अरिहंताणं नमो ताणं ||२२|| 'रागद्दोसा ०' इति, रागस्त्रिधा दृष्टिरागकामरागस्नेहरागभेदात्, द्वेषः - परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रं रागः अप्रीतिमात्रं द्वेषः, एतयोरुपलक्षणत्वात् मदमत्सराहंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषां हंतारो रागद्वेषारि - हंतारः, तथा कर्मणां - ज्ञानावरणादीनां अष्टकं कर्माष्टकं तदादौ येषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टकाद्यरयः, आदिशब्दात्परीषद वेदनोपसर्गादिग्रहः, तेषां हन्तारः, षष्ठी - लोपोऽत्र द्रष्टव्यः, तथा विषया: - शब्दरूपगन्धरसस्पर्शाः कषायाः - क्रोधमानमायालोमाः अनन्तानुबन्ध्यादिभेदास्त एव Page #17 -------------------------------------------------------------------------- ________________ जीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्यं हन्ता इति पदमत्रापि सम्बध्यते, अथवा विषयकषायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकषायारयः, णमिति वाक्यालङ्कारे, एवं विधा अर्हन्तो-जिना मे-मम शरणं-परित्राणं भवन्वित्यर्थः ॥ १३ ॥ ____ 'रायसिरि०' त्ति, राज्यश्रियं-राज्यलक्ष्मी अपकृष्यअवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरण-आसेवनं, कथंभूतं ?दुश्वरं-सामान्यसाधुभिः कतु मशक्यं वार्षिकषण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषितमजलं च तत्तपोऽनुचर्य-आसेव्य ये केवलश्रियं केवलज्ञानविभूतिमहन्तः तस्या योग्या भवन्तीत्यर्थः तेऽर्हन्तः-तीर्थकृतो मे शरणं भवन्त्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि, राज्यश्रियमपकर्षयन्तः-त्यजन्तस्तथा तपश्चरणं दुश्वरमनुचरन्तः केवलश्रियं चाहन्तः-प्राप्नुवन्तो ये ते शरणं, एतेन पूर्वोक्तेन राज्यश्रीत्यागतपश्चरणकरणकेवलश्रीप्रापणरूपावस्थात्रयशरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारास्तिथापि ते गृहवासस्थाः साधूनां न नमस्काराहाः अविरतत्वादिति दर्शितं, यच्चानागतजिनाः साधुभिनमस्क्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भावः।१४। 'थव(थुइ)वंद०' त्ति, स्तवः 'थुइ' पाठे स्तुतिर्वा Page #18 -------------------------------------------------------------------------- ________________ सद्भूतगुणोत्कीर्तनं वन्दनं-कायिकः प्रणामः तौ अर्हन्तःतयोर्योग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजा-समवसरणादिकां समृद्धि अर्हन्तः-तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुख-निर्वाणादनन्तरं तदप्यहन्ति-तस्या अपि योग्या भवन्तीत्यहन्तः, शेष पूर्ववत् ॥१५॥ _ 'परमण 'त्ति, परेषां-आत्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो-जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा (श्री० सि०अ०८ पा०३ सू० ७') 'वित्यादेशो वा' एतेन अनुत्तरसुराणां मनः-संशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो-मुनयस्तेषामिन्द्राः-गौतमादयः महान्तश्च ते इन्द्राश्च महेन्द्रा:शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदहन्तीति योगीन्द्रमहेन्द्रध्यानार्हाः, तथा धर्मकथां-दानशीलतपोभावनादिकां कथयितुमर्हन्तः-तस्याः कथनयोग्याः सर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छद्मस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथानहत्वाजिनानां, शेषं प्राग्वत् ॥ १६ ॥ 'सव्व०' त्ति सर्वे सूक्ष्मवादरत्रसस्थावरा ये जीवास्तेषां न हिंसा अहिंसा-रक्षा तामहन्तः तथा सतां हितं सत्य-तथ्यं तच्च तद्वदनं च तदेवार्हन्तोऽसत्यभाषणहेतुरागद्वेषमोहरहितत्वातेषां, तथा ब्रह्मव्रतं अष्टादशभेदं 'दिव्यौदारिककामानां' Page #19 -------------------------------------------------------------------------- ________________ १४ 1 ( कुतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टदशधा मतम् ।। १ ।। ) इति श्लोकोक्तमासेवितु ं प्ररूपयितुमनुमोदयितु' चार्हन्तः, शेषं तथैव ॥ १७ ॥ तथा 'ओस 'न्ति अवस्रियते - गम्यते संसारमयोद्विग्नैः जीवै रित्यवसरणं समवसरण मित्यर्थः तदवसृत्य - अलंकृत्य, तथा चतुस्त्रिंशतो-- जन्मजकर्मक्षय जसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयान्निषेव्य, उपलक्षणत्वात्पश्चत्रिंशद्वचनातिशयांश्च तथा धर्मकथां कथयित्वा ये मुक्ति यान्ति यास्यन्ति याता इत्यध्याहार्थं 'कहंता' इति पाठे धर्मकथां कथयन्तो ये वर्त्तन्ते ते शरणं, पूर्वं धर्मंकथाकथनयोग्या इत्युक्तं अत्र तु धर्मकथां कथयन्त एवेति न पौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, यदुक्तं - सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणे अन हुंति पुणरुत्तदोसा उ ॥१॥॥ [ स्वाध्यायध्यानतपऔषधेषु उपदेशस्तुतिप्रदानेषु । सत गुणकीर्त्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥ १ ॥ |] शेषं तथव ॥ १८ ॥ 'एगाइ गिर' त्ति एकयाऽपि गिरा - एकेनापि वचनेन अनेकप्रकारान् संदेहान् - संशयान् केषां ?-- देहिनां - सुरासुर ܕ Page #20 -------------------------------------------------------------------------- ________________ नरतिर्यग्रूपाणां सम-समकालमेव छित्त्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्ते' ति पाठे समुच्छिद्येति ज्ञेयं, त्रिभुवनमनुशास्यशिक्षयित्वा अनुशासयन्तो वा सम्यक्त्वदेशविरतिसर्व विरतिलक्षणशिक्षाप्रदानेन, मोक्षं यान्तीति योगः, शेषं तथैव ॥१९॥ 'वयणा' इति वचनमेवामृतं वचनामृतं क्षत्पिपासादिदोषापहारकत्वात् तेन वचनामृतेन भुवनं-लोकं निर्वाप्यतस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु-उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्तादिकेषु प्रागुफ्तं भुवनमेव स्थापयित्वा स्थापयन्तो वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकं, अभव्यास्तु तीर्थंकरोपदेशेनापि नावबुध्यन्ते, तमुद्धृत्य उद्धरन्तो वा भवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेषं पूर्ववत् ॥ २० ॥ ___ 'अच्चम्भुअ'त्ति अत्यद्भुता-अन्येष्वसंभविनो ये गुणा:प्रातीहार्यादिलक्षणाः अन्ये वा रूपादयस्ते विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान् , तथा निजयश एव शशधरः--चन्द्रस्तेन प्रसाधिता--विभूषिता दिगन्ता--दिक्पर्यन्ता यैः 'पयासिअ' त्ति पाठे प्रकाशिता वा यैस्तान् नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते अनाधनन्तास्तान् शरणं प्रपन्नः तानाश्रित इत्यर्थः, एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः ॥ २१ ॥ Page #21 -------------------------------------------------------------------------- ________________ अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह-'उझि' त्ति, उज्झितानि--त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहितत्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि--सम्पूर्णानि यानि दुःखानि तैरार्ता ऋता वा--पीडिता ये सत्त्वाः-प्राणिनस्तेषां शरण्याः--शरणे साधवस्तेभ्यः, यद्वा समाप्तं -निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता--जन्मजरामरणादिदुःखैः पीडिता ये सवास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्त्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः, तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुयथें षष्ठी 'छट्ठीविभत्तीइ भण्णइ चउत्थी' इति प्राकृतसूत्रबलात् , तेभ्यः--पूर्वोक्तगुणेभ्योऽहद्भ्यो नमो-नमस्कारोऽस्तु ॥ २२ ॥ अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽह अरिहंतसरण-मलसुद्धिलद्ध(सुवि)सुद्ध-सिद्धबहुमाणो । पणय-सिररहअ-करकमल सेहरो सहरिसं भणह ॥२३॥ कम्मलुक्खयसिद्धा साहाविअ-नाणदंसणसमिद्धा । सव्वट्ठलडिसिद्धा ते सिडा हुँतु मे सरणं॥ २४ ॥ तिअलोय-मत्थयत्था परमपयत्था अचिंतसामत्था। मंगलसिद्ध पयत्था सिद्धा सरणं सुहपसत्था ॥ २५ ॥ Page #22 -------------------------------------------------------------------------- ________________ १७ मूलुक्खय(मूलक्खए)-पडिवक्खा अमूहलक्खा सजोगिपञ्चक्खा । साहाविअत्तसुक्खा सिद्धा सरणं परममुक्खा ॥२६॥ पडिपिल्लिअ-पडिणीआ समग्ग-झाणग्गि-दड्डभवबीआ। जोईसरसरणीया सिडा सरणं सुमरणीआ॥२७॥ पाविअपरमाणंदागुणनिस्संदा विदिन्न(भिन्न)भवकंदा। लहुईकयरविचंदा सिडा सरणं खविअदंदा ॥ २८ ॥ उवलड-परमबंभा दुल्लहलंभा विमुक्कसंरंभा। भुवणघर-धरणखंभा सिद्धा सरणं निरारंभा॥२९॥ ___ 'अरिहंत'त्ति अर्हन्तां शरणमहच्छरणं तेन पूर्वोक्तेन या मलस्य-कर्मरजसः शुद्धिस्तया लब्धः शुद्धो-निर्मल: सिद्धान् प्रति बहुमानो-भक्तियन स तथा, 'सुविसुद्ध'त्ति पाठे तु सुष्ठु-अतिशयेन विशुद्धो-निमल इत्यथः, पुनः किंभूतः -प्रणतं-भक्तिवशेन नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवंभूतः सन् सहर्ष भणति ॥ २३ ॥ ___ यच्चायं भणति तद्गाथाषट्केनाह-'कम्मट्ट'त्ति, कर्माष्टकक्षयेण सिद्धाः-प्रसिद्धाः ते तीर्थसिद्धादिभेदेन पञ्चदशधा, तानाह-तीर्थसिद्धाः प्रसन्नचन्द्रसनत्कुमारादयः १ अतीर्थसिद्धा मरुदेव्यादिकाः २ गृहलिङ्गसिद्धाः पुण्याढयादिकाः ३ अन्य Page #23 -------------------------------------------------------------------------- ________________ १८ लिङ्गसिद्धा वल्कलचीर्यादिकाः ४ स्वलिङ्गसिद्धा जम्बूस्वाम्यादिकाः ५ स्त्रीलिङ्गसिद्धा राजीमत्यादिकाः ६ नरसिद्धा भरतादिकाः ७ कृत्रिमनपुंसकसिद्धाः गुणसेनादिकाः ८ प्रत्येकबुद्धसिद्धा नमिराजादिकाः ९ स्वयंबुद्धसिद्धाः समुद्रपालादिकाः १० बुद्धबोधितसिद्धाः त्रिकाधिकपञ्चदशशततापसादिकाः ११ एकसिद्धाः गजसुकुमालादिकाः १२ अनेकसिद्धा भरतपुत्रादिकाः १३ अजिनसिद्धाः पुण्डरीकगौतमादिकाः १४ जिनसिद्धा आदिनाथादिकाः १५ पुनः कथंभूताः १-स्वाभाविके-निरावरणे ये अनवच्छिन्ने ज्ञानदर्शने ताभ्यां समृद्धाः-स्फीताः स्फातिमन्तः, तथाऽर्थ्यन्ते-अभिलष्यन्ते इत्यर्थाः सर्वे च तेऽर्थाश्च तेषां लब्धयः-प्राप्तयः सर्वार्थलब्धयः सिद्धा-निष्पन्नाः सर्वार्थलब्धयो येषां ते तथा, सिद्धसर्वकार्याः-प्राप्तसर्वसुखज्ञानादिभावाः कृतकृत्या इत्यर्थः, आषत्वात् सिद्धशब्दस्याग्रे निपातः, सर्वार्थलब्धिभिः सिद्धा निष्ठिता इत्येवं वा समासः, ते सिद्धा मम शरणं भवन्तु ॥ २४ ॥ 'तिअलोय'त्ति, त्रैलोक्यस्य-चतुर्दशरज्ज्वात्मकस्य यन्मस्तकं-सर्वोपरिवर्तिस्थानं पश्चचत्वारिंशल्लक्षयोजनविस्तीर्णेषत्प्राग्भाराख्यसिद्धिशिलाया उपरितनयोजनसत्कोपरितनचतुर्विंशतितमभागरूप आकाशदेशस्तत्र तिष्ठन्तीति त्रैलोक्यमस्तकस्थाः , तथा परमपदं-मोक्षपदं सर्वकर्मरहितत्वरूपं तद्धेतुत्वाचारित्रादिक्रियाकलापस्य तत्र तिष्ठन्तीति ते तथा, अचि Page #24 -------------------------------------------------------------------------- ________________ ७२ न्त्यमनन्तत्वात् सामर्थ्य-जीवशक्तिविशेषो बलं येषां ते तथा, मङ्गलरूपाः सिद्धाः-सम्पन्नाः पदार्था येषां ते तथा, यद्वा सांसारिकदुःखरहितं मङ्गलभूतं यत् सिद्धिपदं तत्र तिष्ठन्ति इति ते तथा, ते सिद्धाः शरणं भवन्तु, पुनः कथंभूताः १-सुखेन जन्मजरामरणक्षत्तपाद्याबाधारहितेन मुक्तिप्रभवेन प्रशस्ताः अव्याकुला अनन्तसुखा इत्यर्थः ॥ २५ ॥ ___ 'मूलुक्खय'त्ति, मूलादुत्खाता:-उन्मूलिताः प्रतिपक्षा:कर्मरूपा यैस्ते तथा, समूलनिर्मूलितकर्माण इत्यर्थः, 'मूलक्खए' त्ति पाठेऽयमों-मूलस्यसंसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकषाययोगरूपस्य शत्रुसङ्घातस्य क्षये कर्तव्ये प्रतिपक्षा इव-वैरिण इव तजयं कृतवन्त इत्यर्थः, तथा लक्ष्ये-द्रष्टव्यपदार्थेन मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषां, तथा सयोगिनांसयोगिकेवलिनामेव प्रत्यक्षा-दृश्याः, शेषज्ञानिनां अविषयत्वात् सिद्धानां, तथा स्वाभाविकं-अकृत्रिममात्तं-गृहीतमाप्तंप्राप्तं वा सुखं यैस्ते तथा, पुनः किंविशिष्टाः ?-परम:-प्रकृष्टोऽत्यन्तं विगमात्कमभिः सह मोक्षो-वियोगः पृथग्भावो येषां ते तथा, ते सिद्धाः शरणं भवन्तु ॥ २६ ।। 'पडिपिल्लिअ'त्ति, प्रतिप्रेरिताः-क्षिप्ता अनादृता इत्यर्थः प्रत्यनीकाः-शत्रवो यैः समशत्रुमित्रत्वात् , यद्वा प्रतिप्रेरितानिराकृताः प्रत्यनीका-रागाद्यान्तरशत्रवो यैस्ते तथा, समग्रं Page #25 -------------------------------------------------------------------------- ________________ सम्पूर्ण यद्धयानं परमलयः शुक्लध्यानमित्यर्थः तदेवाग्नि:वह्निस्तेन दग्धं-भस्मसात्कृतं भवस्य-संसारस्य बीजं-ज्ञानावरणीयादि कम यैस्ते तथा, योगीश्वरा-गणधराश्छद्मस्थतीर्थकरा वा तै शरणीयाः-आश्रयणीया नमस्करणध्यानादिना, तथा स्मरणीया-ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवं विधाः सिद्धाः शरणं भवन्तु ॥ २७ ॥ 'पावित्ति,प्रापितः-आत्मजीवं प्रति ढौकितः प्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदामुदितत्वात्ते तथा, तथा गुणानां-ज्ञानदर्शनादीनां परिपाकप्राप्तत्वान्निस्स्यन्दः-सारो येषु ते तथा, सर्वसारज्ञानादिगुणा इत्यर्थः, विदीर्णो-विदारितः स्फाटितो भवस्य-संसारस्य मोहनीयादिकमरूपः कन्दो यैस्ते तथा, लोकालोकप्रकाशककेवलोद्योतेन लघुकीकृतौ-अल्पप्रभावीकृतौ रविचन्द्रौ यैः तदुद्योतस्य परिमितयोजनप्रकाशकत्वात्ते तथा, तथा क्षपितं-क्षयं नीतं द्वन्द्वं-संग्रामादिरूपं यैस्ते तथा, सर्वथा निष्कायत्वात् , ते एवं विधाः सिद्धाः शरणं भवन्तु ॥ २८॥ 'उवल 'त्ति, उपलब्धं प्राप्तं परमब्रह्म-प्रकृष्टं ज्ञानं यैस्ते उपलब्धपरमब्रह्माणः, समवाप्तकेवलज्ञाना इत्यर्थः, तथा दुर्लभो लम्भः-लाभो मुक्तिपदप्राप्तिलक्षणो येषां, सर्वलाभासरत्वात्तल्लाभस्य सवैचारित्रादिक्रिय णां तल्लाभे एव साफल्याच, Page #26 -------------------------------------------------------------------------- ________________ २१ तथा विमुक्तः - परित्यक्तः परणीयपदार्थेषु संरंभः- आटोपो यैस्ते तथा, निष्पन्नसर्व प्रयोजनत्वात्तेषां तथा 'भुवनं - जीवलोकस्तदेव यद्गृहमिव गृहं तस्य संसारगर्तायां पततो धरणेरक्षणे स्तम्भा इव स्तम्भाः, तथा 'निरारम्भा' निर्गता - बहिभूता आरम्भेभ्यः, सर्वथा कृतकृत्यत्वात्तेषां ते एवंभूताः सिद्धा मम शरणं - आलम्बनं भवन्तु ॥ एतेन सिद्धाख्यं द्वितीयं शरणमभिहितं ॥ २६ ॥ अथ साधुशरणं प्रतिपित्सुर्यदभिधत्ते तदाह 9 सिद्धसरणेण नयबंभ हेउ साहुगुणजणिअअणुराओ (बहुमाणो ) । मेइणिमिलन्तसुपसत्थ-मत्थओ तत्थिमं भणइ ||३०|| जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा । नाणाइएहिं सिवसुक्ख साहगा साहुणो सरणं ॥ ३१ ॥ केवलिणो परमोहि विउलमइ सुअहरा जिणमयंमि आयरियउवज्झाया ते सव्वे साहुणो सरणं ॥ ३२ ॥ चउदसदसनवपुव्वी दुवालसिक्कारसंगिणो जे अ । जिणकप्पअ (प्पा) हालंदिअ परिहारविसुद्धिसाहू अ |३३| १. भुवनं त्रिभुवनं तदेव गृहं तस्य धरणं अवष्टम्भनं तत्र स्तम्भा इव स्तम्भाः, भुवन लोकस्य दुर्गती पततः स्वशरणप्रतिपत्तुः स्थिराधारभूतत्वात्तेषां ( इति प्रत्यन्तरे ) । Page #27 -------------------------------------------------------------------------- ________________ २२ खीरासवमहुआसव - संभिन्नस्सोअकुट्ठवुडी अ । चारणवे उग्विषयानुसारिणो साहुणो सरणं ॥ ३४ ॥ उज्झअवय (इ) र विरोहा निच्चमदोहा पसंतमुहसीहा | अभिम(ग) धगुणसंदोहा हयमोहा साहुणो सरणं |३५| खंडिअसिणेहदामा अकामधामा निकामसुहकामा | सुपुरिसमणाभिरामा आयारामा मुणी सरणं ॥ ३६ ॥ मिल्हिअविसयकसाया उज्झिअघरघर णिसंग सुहसाया । अकलिअहरिसविसाया साहू सरणं गयपमाया (विहुअसोआ) ॥ ३७ ॥ हिंसाइदोससुन्ना कयकारुण्णा सयंभुरुषपण्णा (पुण्णा) (भरुपपन्ना) । अजरामर पह (बहु) खुण्णा साहू सरणं सुकयपुण्णा |३८| कामविडंबनचुक्का कलिमलमुक्का विवि (मु)क्कचोरिका । पावरयसुरयरिका साहू गुणरयणच (वि) चिक्का ॥ ३९ ॥ साहुत्त सुद्विआ जं आयरिआई तओ अ ते साहू | साहुभणिए (गहणे)ण गहिआ तम्हा ते साहुणो सरणं ॥ ४० 'सिद्ध'त्ति, नया-नैगमादयस्तैरुपलक्षितं यद्ब्रह्म-श्रुतज्ञानं द्वादशाङ्गरूपं 'नयभङ्गप्रमाणगमगहन' मिति वचनातस्य नयब्रह्मणो ये हेतवः - कारणभूताः साधुगुणा - विनयादयो, विनयादिगुणसम्पन्नस्यैव श्रुतावाप्तेः तेषु नयब्रह्महेतुषु Page #28 -------------------------------------------------------------------------- ________________ २३ साधुगुणेषु जनितः-उत्पादितोऽनुरागो-बहुमानो यस्य स नयब्रह्महेतुसाधुगुणजनितानुरागः शरणप्रतिपत्ता साध्वादिःकेनास्यानुरागः कृत इत्याह-सिद्धशरणेन-पूर्वोक्तेन, पुनः कथंभूतः सः ?-मेदिन्याः-पृथ्व्या मिलत्-लुठत् सुप्रशस्तं भक्तिभरनम्रत्वान्मस्तकं-उत्तमाङ्ग यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः, एवंविधः स साधुगुणरागी भूतलन्यस्तमौलिः सन् तत्रेतिशरणप्रस्तावे इदं-वक्ष्यमाणं भणति-वक्ति ॥३०॥ यदयं भणति तन्त्रवभिर्गाथाभिराह-जिअलोअ'त्ति, जीवलोकस्य-प्राणिवर्गस्य षड्जीवनिकायात्मकस्य त्रिविधं त्रिविधेन रक्षाकारित्वात् बन्धव इव बन्धवः, कुत्सिता गतिः कुगतिः, नरकतियगादिरूपा सैव सिन्धु:-महानदी समुद्रो वा तस्यास्तस्य वा पारं-तीरं गच्छन्तीति पारगाः-तीरवर्तिनः सुगतिगामित्वादेव साधूनां, तथा महान भागः-अतिशयविशेषो येषां ते तथाऽनेकलब्धिसम्पन्नत्वात्तेषां, तथा ज्ञानादिकैः-ज्ञानदर्शनचारित्रैरेव शिवसौख्यं-मोक्षशर्म साक्ष्यन्ति ये ते शिवसौख्यसाधकाः, एतेन तीर्थान्तरीयैर्यत्स्नादिक्रियाभिर्मोक्षसाधनमुक्तं तन्निरासः कृतो द्रष्टव्यः, त एवंविधाः साधवो मम शरणं भवन्तु ॥ ३१ ॥ साधुभेदानाह-'केवलं' असहायं-मत्यादिज्ञानानपेक्षं सर्वद्रव्यपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः, 'परमोहि'त्ति अवधिः-मर्यादा रूपिद्रव्येषु प्रवृत्तिरूपा तदु Page #29 -------------------------------------------------------------------------- ________________ 9 पलक्षितं ज्ञानमप्यवधिः परमश्चासाववधिश्च परमावधिः यदुत्पत्तेरनन्तरमवश्यमन्तमुहूर्त्तेन केवली भवति उत्कृष्टमवधिज्ञानमित्यर्थस्तद्योगात्साधवोऽपि परमावधयः, उत्कृष्टावधिसाघुमणनेन जघन्य मध्यमावधयोऽपि साधवोऽन्तर्भाविता ज्ञेयाः, 'विउलमह'त्ति मनःपर्यायज्ञानं द्विधा - ऋजुमतिविपुलमतिभेदात् तत्र विपुला मतिॠ जुमत्यपेक्षया विशिष्टज्ञानवत्वेन येषां ते विपुलमतयः, इह विपुलमतिग्रहणेन ऋजुमतयोऽपि गृहीता ज्ञातव्याः, द्वयेषामप्येषां मनुष्यक्षेत्रान्तर्वति संज्ञि पञ्चेन्द्रियमनोद्रव्य परिच्छेदकत्वात्, बह्वल्पपर्यायग्रहणादिनैव विशेषाच्च, तथा श्रुतं - कालिकोत्कालिकाङ्गप्रविष्टानङ्गप्रविष्टादिलक्षणं सूत्रार्थोभयरूपं धरन्ति - योग्य शिष्यप्रशिष्यादिप्रदानेनाव्यवच्छिन्नं कुर्वन्तीति श्रुतधराः सामान्यतः सर्वेऽपि विशेपेण तु आचार्यन्ते -- आसेव्यन्ते मोक्षार्थिभिरित्याचार्याः-पञ्चविधाचारधारिणः सूत्रार्थोभयवेदिनो गच्छावलम्बनभूताः षट्त्रिंशद्गुणवन्तोऽर्थव्याख्यान कारिणः, उपेत्य -- आगत्य अधीयते येभ्य इत्युपाध्यायाः -- सूत्रार्थोभयवेदिनो द्वादशाङ्गसूत्राध्यापका उपाध्यायाः, एते च आचार्योपाध्यायाः सामान्यतो लौकिकाः कलाचार्यादयोऽपि लभ्यन्ते इति तद्व्यवच्छेदायाह - ' जिणमयं मि'त्ति जिनमते -- जिनशासने ये आचार्योपाध्यायाः, एतद्ग्रहणं चोपलक्षणम्, तेन प्रवर्तकस्थविरगणावच्छेदका अध्यत्र गृहीता ज्ञातव्याः, सर्वशिष्यान् Page #30 -------------------------------------------------------------------------- ________________ २५ तपःसंयमव्यापारेषु प्रवतयन्तो गणतप्तिकराः प्रवर्तका उच्यन्ते, प्रवर्तकव्यापारितार्थेषु सीदमानान साधून स्थिरीकुर्वन्तः स्थविराः, गच्छयोग्यक्षेत्रोपध्यादिसंपादनार्थ नवनवक्षेत्रविहारकारिणो गणावच्छेदकाश्च, ते च सर्वे केवलिप्रभृतिसाधवः शरणं भवन्तु ।। ३२॥ ___ तथा चतुर्दश पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणः श्रीप्रभवादयः दशाद्यान्येव पूर्वाणि येषां ते दशपूर्विणः श्रीआर्यमहागिर्यादयः, अन्त्यानि चत्वारि पूर्वाणि प्रायः समुदितान्येव व्युच्छिद्यन्ते इति चतुर्दशपूर्व्यनन्तरं दशपूर्विणोऽभिहिताः, तथा नवपूर्विण श्रीआर्यरक्षितादयः, पूर्वीशब्दः स्थानत्रयेऽपि संबध्यते, तथा 'दुवालस'त्ति अग्रेतनाङ्गीशब्दसंबन्धात् द्वादशाङ्गिनः ननु चतुर्दशपूर्विणां द्वादशाङ्गिनां च को भेद इति चेद् , उच्यते, द्वादशमङ्ग दृष्टिवादः, स च परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिका ५ भेदात्पञ्चविधः, पूर्वाणि च चतुर्दशापि पूर्वगतमध्ये सन्ति द्वादशाङ्गस्यैकदेशभूतान्येवेति पूर्वधरद्वादशाङ्गधरभेदसिद्धिः, तथा एकादशाङ्गिनश्च ये च, चकारो भिन्नक्रमसूचकः, संप्रति विशेषानुष्ठानिन आह-'जिणकप्पत्ति एकाकित्वेन निष्प्रतिकर्मशरीरतया च जिनस्येव कल्पःआचारो येषां ते जिनकल्पिका-दुष्करक्रियाकारिणः 'अहालंदिअ'त्ति उदकाः करो यावता कालेन शुष्यति तत् जघन्यं Page #31 -------------------------------------------------------------------------- ________________ लन्दं तत आरभ्योत्कृष्टं पश्चरात्रिन्दिवलक्षणं तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपक्तिरूपाभिः षड्भिः वीथिभिर्जिनकल्पिकवत् परिकल्पयन्ति, एकैकस्यां च वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति, जिनकल्पिकास्त्वेकमेव दिनं सप्तम एव दिने पुनस्तस्यां वीथ्यां समागच्छन्ति इत्येतेषां भेदः, तथा परिहारविशुद्धिकाश्च साधवः, ते चैवं-नव साधवोऽमुं कल्पं प्रतिपद्यन्ते, तेषां मध्ये षण्मासान् यावत् चत्त्वारस्तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्वमेकश्च कल्पस्थितत्वं-गुरुत्वमित्यर्थः, एते पश्चापि निलेपाचाम्लभोजिनः, पारिहारिकाणां ग्रीष्मे चतुर्थषष्ठाष्टमरूपं शिशिरे षष्ठाष्टमदशमरूपं वर्षास्वष्टमदशमद्वादशमरूपं जघन्यमध्यमोत्कृष्टभेदं तपः, पारणके च तेषां नित्यमाचाम्ल, द्वितीयषण्मासाननुपारिहारिकाः पारिहारिकत्वं पारिहारिकाश्चानुपारिहारिकत्वं प्रतिपद्यन्ते, तृतीयषण्मासान् कल्पस्थितः पूर्वोक्तं पारिहारिकतपः अपरेऽष्टापि निर्लेपाचाम्लतपः कुर्वन्ति, एवमष्टादशभिर्मासैरयं कल्पः परिपूर्णो भवति, तत्समाप्तौ च तमेव कल्पं जिनकल्पं वा प्रतिपद्यन्ते गच्छं वा समायान्ति, चः सर्वेषां समुच्चये ॥ ३३ ॥ विशेषलब्धिसंपन्नान् साधूनाह-खीरासव'त्ति चक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रादिविशेषाहारस्या Page #32 -------------------------------------------------------------------------- ________________ २७ दर्द्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सबन्धि यत्क्षीरं तदिव येषां वचनं माधुर्यरसमाश्रवति मुञ्चतीति चीराश्रवाः, मधु शर्करादि मधुरद्रव्यं तद्रसतुल्यं वचनं येषां ते मध्वाश्रवाः, उपलक्षणत्वात्सर्पिराश्रवा अपि गृह्यन्ते, ते च सुगन्धघृतरसतुल्यवचनाः, तथा 'संभिन्न सोअ'त्ति ये सर्वैः शरीरावयवैः शृण्वन्ति जानन्ति च चक्रवर्तिस्कन्धावारसत्कमनुष्यतिरश्चां कोलाहलशब्दसंदोहान् अयमेतस्यायमेतस्येत्यादिव्यक्त्या पृथक् पृथक् भिन्नान् व्यवस्थापयन्ति इति वा संभिन्नश्रोतसः, 'कुट्ठबुद्धिय'त्ति नीरन्ध्रकोष्ठकक्षिप्तधान्यवद् ये सुनिश्चित स्थिर संस्कारसूत्रार्थास्ते कोष्ठबुद्धयः, 'चारण'त्ति अतिशयचरणाच्चारणाः, ते द्विधा जङ्घाचारणा विद्याचारणाश्च तत्राद्या एकोत्पातेन रुचकवरद्वीपं यान्ति ततः प्रतिनिवृत्ता द्वितीयोत्पातेन नन्दीश्वरे तृतीयोत्पातेन यतो गतास्तत्रायान्ति, उर्ध्वदिशं त्वाश्रित्य ते प्रथमोत्पातेन पाण्डुकवनं द्वितीयोत्पातेन नन्दनवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति तपोलब्धेः प्रयुज्यमानाया ह्रासभवनात्, विद्याचारणास्तु प्रथमोत्पातेन मानुषोत्तरनगं द्वितीयोत्पातेन नन्दीश्वरं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्द्ध तु प्रथमोत्पातेन नन्दनवनं द्वितीयोत्पातेन पाण्डुकवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, विद्यायाः प्रयुज्यमानाया वृद्धिभवनात् तथाऽन्येऽपि बहु 9 Page #33 -------------------------------------------------------------------------- ________________ २८ 9 प्रकारावारणा भवन्ति साधवः, तद्यथा आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गस्थिशरीरा वा पादोत्क्षेपक्रमं विनापि व्योमचारिणः केचित्तु फलपुष्पपत्र हिमवदा दिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतीरश्मिपवनाद्यालम्बन गति परिणामकुशलाः तथा वापीनद्यादिजले तजीवानविराधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा भुव उपरि चतुरङ्गुलप्रमिते व्योम्नि पादोत्क्षेप निक्षेपकुशला जंघाचारणा इति, 'विउव्विति वैक्रियलब्धिनन्तः साधवः, ते च वैक्रियशक्त्या नानारूपैरसङ्घये यानपि द्वीपान् समुद्रांश्च पूरयन्ति, जम्बूद्वीपं तु मनुष्याद्यन्यतररूपैर्विभ्रति, 'पयानुसारि 'त्ति ये पूर्वापरपदानुसारतः स्वयं त्रुटितं पदमनुसरन्ति- पूरयन्ति ते पदानुसारिणः, इह चोपलक्षणत्वादामर्षौषध्यादिलब्धिसंपन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु ।। ३४ ।। अथ सर्वसाधुसाधारणगुणा ये साधवस्तान् गाथापञ्चके - नाह - वैरं - प्रभूतकालजं श्रीवीर जिनं प्रति त्रिपृष्ठभवनिहतसिंहजीवद्दालिक ब्राह्मणस्य कपिलस्येव विरोधः - कुतश्चित्कारणातत्काल सम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योत - योरिव, अथवा वैरहेतवो विरोधाः वैरविरोधा उज्झिताः - त्यक्ता वैराणि विरोधाच यैस्ते तथा, यत एवोज्झितवैर Page #34 -------------------------------------------------------------------------- ________________ २९ विरोधा अत एव नित्यं - सततमद्रोहाः - परद्रोहवर्जिताः, वैरवत एव परद्रोहाभिप्राय सद्भावात्, यत एवाद्रोहा अत एव प्रशान्ता - प्रसन्ना मुखशोभा वदनच्छाया येषां ते तथा, परद्रोहिणां हि मुखं विकरालं स्यादिति यत एवंरूपा अत एवाभिमतःप्रशस्यः पाठान्तरेऽभिगतस्सहचारी वा गुणसंदोहो- गुणनिकरो येषां ते तथा, एवं विधानां च ज्ञानातिशयः स्यादिति हतो मोह :- अज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु ।। ३५ । , खण्डितानि त्रोटितानि स्नेहरूपाणि दामानि-रजव: आर्द्रकुमारेणेव आत्मनो हस्तिनो वा यैस्ते खण्डित स्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामोविषयाभिलाषो धामानि च गृहाणि येषां छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा न विद्यन्ते कामधामानि - विषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरभ्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम - स्थानं अकामधामाः, प्राकृतत्वात्पुंस्त्वं, यत एवंविधा अत एव निष्कामं - निर्विषयं यत्सुखं - मोक्ष संबन्धि तद्विषयोऽभिलाषो येषां ते तथा, निर्वि पयस्यैव शिवशर्माभिलाषुकत्वात् मोक्षसुखाभिलाषिण इत्यर्थः, तथा सत्पुरुषाणां - आचार्यादीनां इङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनां मनः - चित्तमभिरमयन्ति - आनन्दयन्तीति सत्पुरुष Page #35 -------------------------------------------------------------------------- ________________ ३० मनोऽभिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवचनोक्तक्रियासु रमयन्ति-क्रीडयन्तीत्यात्मारामाः, यद्वा आराममिव-भव्यजीवानां क्रीडास्थानमिव आत्मा येषां हर्षहेतुत्वात्ते तथा, अथवा आचारं-पश्चप्रकारममन्ति-गच्छन्तीत्याचारामाः मन्यन्ते-बुध्यन्ते जगतः कालत्रयावस्थामिति मुनयः-साधवस्ते शरणं भवन्तु ॥ ३६ ॥ ____ 'मिल्हिअ'त्ति मिल्हिताः-अपास्ता विषयाः-शब्दाद्याः कषायाश्च-क्रोधाद्या यैस्ते तथा, विषयकषायरहिता इत्यर्थः, तथा गृहं-अगारं गृहिणी-कलत्रं तयोः सङ्गः-संवन्धस्तस्माद्यः सुखास्वादः-सुखानुभवः स उज्झितः-परिहतो यैस्ते तथा निष्परिग्रहा निस्सङ्गाश्चेत्यर्थः, तथा न कलितौ-नाश्रितौ हर्षविषादौ-प्रमोदवैमनस्ये यैस्ते तथा, समभावव्यवस्थिता इत्यर्थः, तथा गतः प्रमादो येभ्यस्ते तथाऽप्रमत्ता इत्यर्थः, 'विहुअसोआ'इति तु पाठे विधूतानि श्रोतांसि-आश्रवद्वारलक्षणानि यः यद्वा विधुतः-क्षिप्तः शोकः-चित्तखेदो यस्ते तथा, विधूतासंयमस्थाना गतशोका वेत्यर्थः, ते साधवः शरणं भवन्तु ॥ ३७॥ हिंसा आदियेषां ते हिंसादयः ते च दोषाश्च, आदिशब्दादलीकभाषणपरस्वापहारस्त्रीसेवापरिग्रहादीनां ग्रहः, हिंसादिदोषैः शून्याः-तैविरहिता इत्यर्थः, तथा कृतं-विरचितं कारुण्यं-जीवलोकोपरि दुःखप्रहाणेच्छा यैस्ते तथा सर्वजीवेषु Page #36 -------------------------------------------------------------------------- ________________ कृपाईचेतस इत्यर्थः, तथा जीवाजीवादिपदार्थानां जिनोक्तानां यथास्थितत्वेन रोचनं-मननं श्रद्धानं रुक् सम्यक्त्वमित्यर्थः प्रज्ञानं प्रज्ञा-बुद्धिः सम्यग्ज्ञानमित्यर्थः, स्वयं भवति इति स्वयम्भूः स्वयम्भुवौ रुक्प्रज्ञे-सम्यक्त्वज्ञाने येषां ते स्वयम्भूरुक्प्रज्ञा यद्वा स्वयंभुवा-स्वयम्भूतेन सम्यक्त्वेन क्षायिकादिना पूर्णाः, दूरीकृतमिथ्यात्वा इत्यर्थः, 'पुन्न'इति पाठे इयं व्याख्या, यद्वा स्वयंभूशब्देन स्वयम्भूरमणः समुद्र उच्यते "भीमो भीमसेन' इति वत् , ततस्तत्तुल्ये विस्तीर्ण ऋक्प्रक्षे तेषां ते तथा, अथवा 'स्वयम्भरप्पन्ना' इति पाठे स्वयंभरा:-आत्मनिर्वाहकाः कस्याप्यनाश्रितत्वेनोत्पन्ना-व्यवस्थिताः स्वयंभरोत्पन्नाः, तथा न विद्यते जरामरौ यत्र तदजरामरं-निर्वाणं तस्य पथो-मार्गस्तदुपदर्शकत्वात्प्रवचनशास्त्राणीत्य तेषु क्षुण्णा:-निपुणाः, सम्यक्तत्त्वस्य वेदिन इत्यर्थः, क्षुण्णः-पुनः पुनः परिशीलनेनासेवितोऽजरामरपथो-मोक्षमार्गो ज्ञानदर्शनचारित्रलक्षणो यैस्ते तथा, प्राकृतत्वात् क्षुण्णशब्दस्य परनिपातः, 'अजरामरबहुखुन्ना' इति पाठे तु अजरामरे-निर्वाणे वर्णयितव्ये बहु प्रभूतं यथा भवत्येवं क्षुण्णाः-सम्यग्मोक्षस्वरूपप्रकाशका इत्यर्थः, ते साधवः शरणं भवन्तु, पुनः किंभूतः-सुष्टु-अतिशयेन कृतं पुण्यं-चारित्रप्राप्तिलक्षणं एज्यद्भवयोग्यं स्वर्गादिलाभलक्षणं वा यैस्ते सुकृतपुण्याः, यद्वा सुकृतैः-तपःप्रभृतिभिः पूर्णा-भृताः संचितप्रभूत Page #37 -------------------------------------------------------------------------- ________________ तपस इत्यर्थः ॥ ३८॥ काम्यते-अभिलष्यते विषयार्थिभिरिति कामस्तस्य कामस्य--स्मरजनितविकारस्य या विडम्बना-नाना विक्रियास्ताभिः परिवेष्टनं तस्याः 'चुक'त्ति प्राकृतत्वाच्च्युतास्तया रहिता ज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः, तथा कलिमलंपापं तेन मुक्ताः पवित्रचारित्रनीरेण तं प्रक्षालितवन्त इत्यर्थः, तथा 'विविक'त्ति विविक्तं-अदत्तादाननियमेन आत्मनः पृथक्कृतं चौरिक्यं-चौर्य यैस्ते तथा स्वामिजीवतीर्थकृद्गुवनुज्ञातवस्त्रभक्तपानादिग्रहणेन सर्वथापि तं परिहतवन्त इत्यर्थः, तथा पातयति दुर्गतौ जीवानिति पापं तदेव रजः पापरजः तत्कारणत्वात् पापरजश्व तत्सुरतं-मैथुनं च पापरजःसुरतं तेन रिक्था:-तत्यागिनो, नवगुप्तिसनाथब्रह्मव्रतधरणाद् , एवंविधाः साधवः शरणं, किंभूताः साधवः ?-गुणा-व्रतषटकादयः त एव रत्नानि तैः चच्चिकत्ति--दीप्तिमन्तस्तमण्डिता इत्यर्थः, यद्वा साधूनां गुणाः साधुगुणा इत्येवं कार्य, प्राकृतत्वादीर्घत्वं, साधव इति विशेष्यं तु प्रस्तावादेव लभ्यते ॥३६॥ नन्वत्र साधुशरणाधिकारे ज्येष्ठपदवर्तित्वेनाचार्यादयः कथं गृह्यन्ते इति संशयापनोदायाह-साधुत्वे--साधुस्वरूपे समभावपरसाहाय्यदानमुक्तिसाधकयोगसाधनादिलक्षणे सुष्टुअतिशयेन स्थितास्तत्सेविन इत्यर्थः यद्वा साधुत्वेन सुस्थिता:समाहिताः साधुत्वसुस्थिताः यद्-यस्मात्कारणादाचार्यादयः Page #38 -------------------------------------------------------------------------- ________________ पश्चापि ततश्च ते पश्चापि साधव उच्यन्ते, तत्कार्यकरणात् , तस्मात्साधुभणितेन-साधुसत्कोच्चारेण गृहीतास्ते सर्वेऽप्यतीतानागतवर्तमानकालभाविनोऽत्राधिकारे मम शरणं भवेयुरिति ॥४०॥ उक्तं तृतीयं शरणं, अथ चतुर्थं शरणमाहपडिवन्नसाहुसरणो सरणं काउं पुणोऽवि जिणधम्म । पहरिसरोमंचपवंचकंचुअंचियतणू भणति ॥ ४१ ॥ पवरसुकरहिं पत्तं पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नत्तं धम्म सरणं पवन्नोऽहं ।। ४२॥ पत्तेण अपत्तेण य पत्ताणि अ जेण नरसुरसुहाणि । मुक्खसुहं पुण पत्तेण नवरि धम्मा स मे सरणं ॥४३॥ निद्दलिअकलुसकम्मो कयमुहजम्मो खलीकयअहम्मो। पमुहपरिणामरम्मो सरणं मे होउ जिणधम्मो ॥४४॥ कालत्तएविन मयं जम्मणजरमरणवाहिसयस(सु)मयं । अमयं व बहुमयं जिणमयं च, शरणं (धम्म) पवन्नोऽहं ।। ४५॥ पसमिअकामपमोहं दिहादिहेसु न कलिअविरोहं । सिवसुखफलयममोहं धम्म सरणं पवन्नोऽहं ॥४६ ॥ नरयगडगमणरोहं गुणसंदोहं पवाइनिक्खोऽहं । निहणियवम्महजोहं धम्म सरणं पवन्नोऽहं ॥४७॥ भासुरसुवन्नसुन्दर-रयणालंकारगारवमहग्छ । निहिमिव दोगचहरं धम्म जिणदेसिअं वंदे ॥४८॥ Page #39 -------------------------------------------------------------------------- ________________ ३४ साधुश्रावकाद्यन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्म शरणं कर्तु-प्रतिपत्तमिच्छन्नित्यध्याहाय, इदं वक्ष्यमाणं भणति, किंविशिष्टोऽसौ ?-प्रकृष्टो हर्षः प्रहर्षःवदनविकासादिचिह्नगम्यो मानसः प्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कञ्चुकस्तेनाञ्चिता-विभूषिता तनुःशरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकञ्चुकिततनुः, प्रमोदपूरिताङ्गः सन्नित्यर्थः ॥ ४१ ॥ ___ यद्भणति तदाह-प्रवरसुकृतैः-विशिष्टपुण्यैः प्राप्त लब्धं सम्यक्त्वदेशविरतिरूपं, धर्ममिति सम्बन्धः, अर्धपुद्गलपरावर्ताभ्यन्तरीभूतभवरेव भव्यजीवरासन्नसिद्धिकैः प्राप्यमानत्वात् , तथा पात्रैरपि-भाग्यवद्भिरपि ब्रह्मदत्तचक्रयादिभिरिव कैश्चित नवरीति-पुनरर्थे न प्राप्तं-नासादितं, पात्रत्वं च ब्रह्मदत्तस्य चक्रित्वलाभात , देवेन्द्रचक्रवर्त्यादिपदानि हि भव्यानामेव भवन्तीति, तमेवंभूतं केवलिभिः केवलज्ञानोपलब्धसमस्ततत्त्वैः प्रकाशितं धर्म-श्रुतधर्मचारित्रधर्मरूपं शरणं प्रपन्नोऽहमिति ।४२ _____ अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह-प्राप्तेनाप्राप्तेनापि -लब्धेनालब्धेनापि, केनेत्याह-येन जैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्र प्राप्तेन, यथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं-युगलिकसुखं प्राप्तं, अप्राप्तेनापि च यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्व, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः अप्राप्तेन धर्मेण Page #40 -------------------------------------------------------------------------- ________________ सुरसुखं 'तावस जा जोइसिआ चरगपरिव्वाय बंभलोगो जा' इत्याद्यैर्वहुभिः कपिलादिभिरिव लब्धं, यद्वा अनेकः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यश्च अप्राप्तेनापि तेन, तेषामप्यागमे केवल क्रियादिवलेन नवमवेयकं यावद्गमनश्रवणात् , मोक्षसुखं पुनर्यन धर्मण प्राप्तेनैव प्राप्यते, नान्यथा, मरुदेवाप्रभृतयोऽपि भावतश्चारित्रपरिणाम प्राप्यैव मोक्षं जग्मुरिति, नवरि-पुनः स धर्मों मम शरणं भवतु । अथ व्याख्यान्तरं-पात्रेण-ज्ञातिकुलसौभाग्यादिगुणयुक्तेन तथा अपात्रेणापि-गुणवियुक्तेन दारिद्रयाधुपहतेनापि प्राप्तानि-लब्धानि येन कारणेन नरसुरसुखानिमनुजदेवसमृद्धयः, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रेणैव नरसुखं-विदेहेषु सुकुलोत्पत्त्यादिकं यथा प्राप्तं, अपात्रेण-दौःस्थ्याक्रांतेन कौशाम्ब्यामार्यसुहस्तिप्रवजितसम्प्रतिराजजीवद्रमकेणेव, पात्रेण सुरसुखं वसुदेवपूर्वभवनंदिषेणेनेव प्राप्तं, च एवकारार्थो भिन्नक्रमश्च पात्रेणेत्यत्र योज्यते, ततश्चायमर्थः नवरं-केवलं मोक्षसुखं-शिवशर्म पुनः पात्रेणैव चारित्रधर्माधारभूततथाभव्यत्वगुणलक्षणेनैव प्राप्यते. यस्य धर्मस्य प्राप्तेनैवेति शेषः, नान्यथेति, स धर्मो मम शरणं भवतु ॥४३॥ ' निर्दलितानि-विदारितानि तत्कत जनेभ्यः कलुषाणिमलिनानि कर्माणि येन धर्मेण स तथा, निधूतसर्वपाप इत्यर्थः, Page #41 -------------------------------------------------------------------------- ________________ यत एवंविधोऽत एव कृतं शुभं जन्म कम वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिप्राप्तिलक्षणं येन स कृतशुभजन्मा कृतशुभकर्मा वा, यत एवंविधोऽत एव खलीकृतो-वैरिवनिर्धाटितो निःसारितो वा अधर्मः कुधम्मों वा सम्यक्त्ववासितान्त:करणेभ्यो येन स तथा, तथाऽयं जिनधर्मः प्रमुखे-आदौ इहलोकेऽपि रम्यो धम्मिलादीनामिव परिणामे-परिपाकप्राप्तौ भवान्तरेऽपि दामनकादीनामिव रम्यो-मनोज्ञः, मिथ्याष्टिधर्मस्तु नैवंविधः, तस्यारम्भेऽपि पश्चाग्नितपःप्रभृत्यादेमहाकष्टहेतुत्वेन परिणामे परलोके च मिथ्यात्वरूपत्त्वा दुगतिमूलत्त्वेन चासुन्दरत्वात, विषयसुखस्य तु आदौ सुन्दरत्वेऽपि परिणामे शनै शनैः इहलोके परलोके च कटुविपाकत्वाच्च, जिनधर्मस्त्वादौ परिणामेऽपि च रम्य एव, स एवंविधो धर्मो मे शरणं भवतु ॥४४॥ ___ कालत्रयेऽपि-अतीतानागतवर्तमानरूपे न मृतो-न विनष्टस्तं नमृतं भरतैरवतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नरन्तर्येण सद्भावात् , तथा जन्म च जरा च मरणं च व्याधयश्च जन्मजरामरणव्याधयस्तेषां शतानि तानि शमयतीति जन्मजरामरणव्याधिशतशमकः, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तं, 'सुमय'मिति पाठे तु जन्मजरामरणव्याधिशतानि सुष्टु-अतिशयेन मृतानि-विनष्टानि यस्मात्स तथा, सद्वर्णगन्धरसोपेतं बलवर्णसौभाग्यपुष्टि Page #42 -------------------------------------------------------------------------- ________________ ३७ जननं सर्वरोगनाशनं वस्तु अमृतमुच्यते तदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वाद् बहुमतः सर्वस्याप्यतिशयेनाभीष्ट इत्यर्थः, तं प्रक्रमायातं जिनधर्म, न केवलं जिनधर्म, किन्तु जिनप्रवचनमपि-द्वादशाङ्गरूपं पूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्नः-आश्रित इत्यर्थः ॥ ४५ ॥ प्रकर्षण कटुविपाकतादर्शनेनोपशमं नीतः कामस्य प्रकृष्टो मोहः-उन्मादो मीहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तिसद्भावात् , तथा दृष्टादृष्टे-दृष्टा-दृष्टविषया ये बादरैकेन्द्रियादयो जीवाः पुद्गलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः सर्वलोकवृत्तिसूक्ष्मैकेन्द्रियादिजीवा धर्माधर्मास्तिकायादयोऽजीवाश्च, स्वर्गनरकादयो वा येऽतिशयज्ञानज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषु न कलितोन प्राप्तो विरोधो-विपरीतप्ररूपणारूपो येन स तथा तं, केवलिप्रज्ञप्तत्वात् यथावस्थितस्वरूपावेदकमित्यर्थः, तथा शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं, अत एव न मोघोऽमोघः-- अवन्ध्यः सफल इत्यर्थः तमेवं प्रकारं धर्म शरणं प्रपन्नोऽहमिति ॥ ४६॥ पापकारिणो नरान् कायन्ति--आह्वयन्तीति नरका--रत्नप्रभादिषु सीमन्तकाद्यास्त एव गम्यन्ते इति गतिस्तत्र यद्गमनं तद् रुणद्धि-निवारयतीति नरकगतिगमनरोधस्तं, तथा गुणानां-क्षान्त्यादीनां संदोहः-समुदायो यत्र स तथा तं, Page #43 -------------------------------------------------------------------------- ________________ ३८ तथा प्रकृष्टा वादिनः प्रवादिनः, निंर्शब्दो निषेधार्थः तैः प्रवादिभिः न क्षोभ्यते इति प्रवादिनिक्षोभ्यस्तं, अथवा प्रवादिभ्यो निर्गतः क्षोभः कल्पनं यस्य स तथा यद्वा प्रवादिनां निः- नितरां क्षोभो यस्मात्स तथा तं, सुयुक्तियुक्तत्वेन श्रीसर्वज्ञोक्तत्वेन च वादिभिः क्षोभयितुमशक्य इत्यर्थः, 'निहणिय'त्ति निहतो - नाशं नीतो मन्मथयोधः - कामसुभटो येन स तथा, नवगुप्तिरचनारुचिरब्राह्मकवचाश्चितत्वात् धर्मस्य, तं धर्मं शरणं प्रपन्नोऽहमिति ॥ ४७ ॥ अथ निधानोपमया धर्मस्य नमस्कार माह- देवादिभासुरगतिहेतुत्वाद्भासुरः - शोभनो वर्ण:- श्लाघागुणोत्कीर्त्तन रूपो यस्मात्स सुवर्णः, चारित्रवतामिन्द्रादिभिरपि श्लाघनीयत्वात्, तथा सुन्दरा- मनोज्ञा या क्रियाकलापविषया इच्छामिच्छेत्यादिदशविधसामाचार्यादिरूपाया रचना-विविधकल्पना सेव तया वाऽलङ्कारः - शोभा विशेषो यस्य स सुन्दररचनालङ्कारः, तथा गौरवं - महत्त्वं तद्धेतुत्वाद्धर्मोऽपि गौरवं तथा महानर्थोमाहात्म्यविशेषो यस्य स महार्थः, चारित्रवतामामर्षौषध्यादिमाहात्म्यविशेषसंभवात्, ततः पश्चानामपि विशेषणानां कर्मधारयः, अथवा शोभनो वर्ण:- श्लाघा तेन सुन्दरा या सामाचार्यादिरचना सैवालङ्कारो यस्येति एकमेव कार्य, चारित्र - पक्षेऽयं पूर्वोक्तोऽर्थः श्रुतधर्म पक्षे तु रचना पदपङ्क्त्या भास्वरो ज्ञानादिभिः केवलिभिरुक्तत्वात् भास्वरः शोभना वर्णा: Page #44 -------------------------------------------------------------------------- ________________ ३९ अक्षराणि तेषां तथा सुन्दरा या विरचना तस्या योऽलङ्कारो - द्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणधारणेन च शोभाविशेषः तस्माद्यगौरवं - गुरुत्वं अनन्तार्थवादिरूपं तेन महानर्थ:आधिक्यं पूजातिशयो वा यस्य स तथा ततो विशेषणद्व कर्मधारयः, अथवा भासुरेति वर्णविशेषणं कार्यं, यद्वा भासुरसुवर्णसुन्दररचनालंकारेण गौरवं - गुरुत्वं यस्य स तथा, महार्थमिति पृथक्कृत्वा समस्यते, निधिपक्षे पुनर्भासुरं - दीप्तिमत् सुवर्ण - कनकं सुन्दराणि यानि रत्नानि अलङ्कारा-हाराधाभरणविशेषास्तै गौरवं - सम्पूर्णता तेन महार्घो बहुमूल्यः, 'दोगचि ' -ति चारित्रधर्मपक्षे दुष्टा गतिदु गतिः - कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गतेर्भावो दौर्गत्यं, श्रुतधर्मपक्षे तु गत्यर्था ज्ञानार्था धातवः अतो गतिः -ज्ञानं दुष्टा गतिः दुर्गतिः अज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरं, निधानपक्षे तु दुर्गतस्य-दरिद्रस्य भावो दौर्गत्यं तद्धरतीति दौर्गत्यहरं दारिद्र्यापहारकृदित्यर्थः एवंविधनिधानोपमितं धर्मं श्रीजिनैःश्रीसर्वज्ञः देशितं - उपदिष्टं वन्दे - नमस्कुर्वेऽहमित्यर्थः ॥ ४८ ॥ उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः, अथ दुष्कृतगहरूपं द्वितीयमधिकार माह चउसरणगमणसंचिअ सुचरिअ-रोमंचअंचिअसरीरो । कयदुक्कडगरिहा-असुहकम्मक्खय-कंखिरो भणह ॥ ४९ ॥ इहभविअमन्नभविअं मिच्छत्तपवत्तणं जमहिगरणं । · Page #45 -------------------------------------------------------------------------- ________________ ४० जिणपवयणपडिकुटुं दुष्टुं गरिहामि तं पावं ॥५०॥ मिच्छत्ततमंधेणं अरिहंताइसु अवनवयणं जं । अन्नाणेण विरहअं इहि गरिहामि तं पावं ॥५१॥ सुअधम्मसंघसाहुसु पावं पडिणोअयाइ जं रइअं। अन्नेसु अ पावेसुं इण्हि गरिहामि तं पावं ॥ ५२ ॥ अन्नेसु अ जीवेसु मित्तीकरुणाइगोअरेसु कयं । परिआवणाइ दुक्खं इहि गरिहामि तं पावं ॥५३॥ जं मणवयकाएहिं कयकारिअअणुमईहिं आयरिश्र । धम्मविरुद्धमसुद्ध सव्वं गरिहामि तं पावं ॥५४॥ चतुःशरणगमनेन-चतुःशरणाङ्गीकारेण सश्चितं-राशीकृतं यत्सुचरितं--पुण्यं तेन योऽसौ रोमाञ्चो-रोमोल्लासस्तेनाश्चितं-भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात् कंटकितगात्र इत्यर्थः, तथा कृतानि-इहभवेऽन्यभवे च विहितानि यानि दुष्कृतानि-पापकृत्यानि तेषां गर्दा-गुरुसमक्षं हा दुटु कय'मित्यादिनिन्दा तया योऽसौ अशुभकर्मक्षयः-पापकर्मापगमः तत्र कांक्षिरः-आकांक्षावान् भणति, दुष्कृतगर्हातो यः पापापगमो भवति तमात्मनः समभिलषन् एवं वक्ष्यमाणं वदतीत्यर्थः ॥ ४६॥ ___ यच्च भणति तदाह-इह-अस्मिन् भवे यत्कृतं तदिहभविकं, अन्यस्मिन् भवे भवमन्यभविकं अतीतभविष्यद्भवसंभवमित्यर्थो, मिथ्यात्वप्रवत्तनं-कुतीर्थिकदानसन्मानतद्दे Page #46 -------------------------------------------------------------------------- ________________ ४१ चाधिकरण बार्चनतच्चैत्यकारापणाद्यधिकरणं, अन्यदपि भवनारामतटाकादिकारण सधनुः खड्गादिशस्त्रयन्त्रगन्त्रीहलोदुखलशृङ्खला दिविधापनदानादिरूपं यत्कृतमिति शेषः, तथाऽन्यच्च जिनप्रवचने यत्प्रतिकुष्टं - प्रतिषिद्धं दुष्टं तत्पापं गमि - जुगुप्सामीत्यर्थः ॥ ५० ॥ उक्ता सामान्येन दुष्कृतगर्हा, सम्प्रति विशेषेण तामाहमिथ्यात्वमेव तमः - अन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्यात्वशास्त्रोपहतभावचक्षुषा जीवेनेति शेषः, 'अर्हदादिषु' अर्हसिद्धाचार्योपाध्यायादिषु पूजाबहुमाना हेषु 'अवण्णवयणं जं'ति अवर्णवादवचनं - असदोषकथनं अवज्ञावचनं वा हीलारूपं यदज्ञानेन - विवेकशून्येन उक्तमिति शेषः, तथा विरचितं कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यच्चान्यदपि जिनधर्म प्रत्यनीकत्ववितथप्ररूपणापरदेवधर्मस्थानादिरूपं, इदानीमवगतपरमार्थस्तत्पापं गर्हामिनिन्दामि गुरुसमक्षमालोचयामीत्यर्थः ॥ ५१ ॥ श्रुतं च धर्मश्व संघश्च साधवश्च श्रुतधर्मसंघसाधवः तेषु पापं - आशातनारूपं प्रत्यनीकतया - विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य - द्वादशांगरूपस्य तदध्ये त्रध्यापकानामुपरि यदरुच्य बहुमानादि चिन्तनं 'अज्ञानमेव शोभन' मिति भणता पूर्वभवे माषतुषस्येव, धर्मप्रत्यनीकता 'कविला इत्थंपि इहयंपी'ति भणतो मरीचेखि, संघप्रत्यनीकतां संमेतशैलया Page #47 -------------------------------------------------------------------------- ________________ ४२ त्रागच्छत्श्रीसंघविलुण्टकानां सगरसुतजीवपूर्वभवचौराणामिव, साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिलद्विजस्येव, तथा सर्वेषां श्रुतधर्मादाचार्योपाध्यायसाधूनामुपरि प्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया, तथाऽन्येष्वपि पापेषुअष्टादशसु प्राणातिपातादिषु यत् किमपि पापं-जीवव्यपरोपणादिकं कृतं तदप्यधुना गर्हामीत्यर्थः ॥ ५२ ॥ यच्चोक्तं-'अन्नेसु अ पावेसु'त्ति तदेव व्यक्तीकतु - माह-अन्येष्वपि जीवेषु-तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभिन्नेषु मैत्रीकारुण्यमाध्यस्थ्यानि विधेयतया गोचरोविषयो येषां ते तथा तेषु कृतं-निष्पादितं 'परिआवणाइ'त्ति परितापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किपि दुःख-कष्टं कृतमिदानी तदपि पापं गर्हामि-जुगुप्साम्यालोचयामीतियावत् ॥ ५३ ।। अथोपसंहारमाह-यत्किश्चित् पापं कृत्यं मनोवाकायै रागद्वेषमोहाज्ञानवशात् कृतकारितानुमतिभिराचरितं-विहितं धर्मस्य-जिनधर्मस्य विरुद्धं-प्रतिकूलं अत एवाशुद्धं-सदोषं सर्वसमस्तमपि तत्पापं गर्हामि-अपुनःकरणेनाङ्गीकरोमि-गुरुसनिधावालोचयामि ।। ५४ ।। उक्तो दुष्कृतगर्हारूपो द्वितीयोऽधिकारः, अधुना सुकृतानुमोदनारूपं तृतीयाधिकारमाह Page #48 -------------------------------------------------------------------------- ________________ ४३ अह सो दुक्कडगरिहा- दलिउक्कडदुक्कडो फुडं भणई । सुकडाणुरायसमुइण्ण-- पुण्णपुलयं कुरकरालो ॥ ५५ ॥ अरिहत्तं अरिहंतेसु जं च सिद्धत्तणं च सिडेसु । आयारं आयरिए उवज्झायत्तं उवज्झाए ॥ ५६ ॥ साहूण साहुचरिअं (किरिअं ) देसविरहं च सावयजणाणं । अणुमन्ने सव्वेसिं सम्मन्तं सम्मदिट्ठीणं ॥ ५७ ॥ अहवा सव्वं चिप घीअरायवयणाणुसारि जं सुकडं । कालत्तएवि तिविहं (विहियं) अणु मोएमो तयं सव्वं ॥ ५८ 'अथे'ति दुष्कृतगर्हानन्तरं सः - साध्वादिको जीवः, कथम्भूतः ? – दुष्कृतगर्हया- दुश्चरित्र निन्दनेन दलितानि - चूर्णीकृतानि उत्कटानि - प्रबलानि दुष्कृतानि - पापानि येन स तथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः, एवं विधः सन् स्फुटं यथा स्यादेवं भणति पुनः स किंभूतः ? - सुकृतानुरागेण सुचरित बहुमानेन समुदीर्णाः सञ्जाताः पुण्यबन्धहेतुत्वात् पुण्याः - पवित्रा ये पुलकाकुरा - रोमोद्गमविशेषाः तैः करालो - व्याप्तः कर्मवैरिणं प्रति भीषणो वा ।। ५५ । यद्भाषते तगाथाद्वयेनाह - अर्हत्त्वं तीर्थंकरत्वं प्रतिदिनं द्विर्धर्मदेशनाकरणभव्यनिकरप्रतिबोधन तीर्थप्रवर्त्तनादिकं अर्हत्सु तदनुमन्येऽहमिति सम्बन्धः, यच्च सिद्धत्वं - सदा केवलज्ञानोपयुक्तत्वसर्वकर्म विमुक्तत्वनिरुपमसुखभोक्तृत्वादिरूपं सिद्धेषु अनुमन्ये, तथाऽऽचारं - ज्ञानाचारादिरूपं पश्चविधमाचार्येषु Page #49 -------------------------------------------------------------------------- ________________ ४४ अनुमन्ये, तथा उपाध्यायत्व-सिद्धान्ताध्यापकत्वरूपमुपाध्यायेऽनुमन्ये इति ।। ५६ ॥ तथा साधूना-सामायिकादिचारित्रवतां पुलाकबकुशादिमेदभिन्नानां जिनकल्पिकप्रतिमाधरयथालन्दिकपरिहारविशुद्धिककल्पातीतप्रत्येकबुद्धबोधितादिभेदैरनेकविधानां सर्वकालक्षेत्रविशेषितानां साधुचरितं-चरणादिक्रियाकलापं ज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपं वाऽनुमन्ये, 'साहुकिरिय'-मिति पाठान्तरे तु साधुक्रियां-सर्वसाधुसामाचारीरूपां इत्यर्थः, तथा देशविरति-सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतकादशप्रतिमादिरूपां, केषां ?-'श्रांपाके 'श्रान्तिपचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः 'टुवपी बीजसंताने' वपन्ति-जिनभवनादिसप्तक्षेत्रेषु निजधनबीजानि इति वाः 'कन विक्षेपे' किरन्ति-विक्षिपन्ति क्लिष्टकमरज इति काः, श्राश्च वाश्च काश्च श्रावकास्ते च ते जनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये, तथा सर्वेषां सम्यक्त्वं सम्यक्त्वंजिनोक्ततत्त्वश्रद्धानरूपं 'तमेव सच्चं निस्संकंजं जिणेहिं पवेइमिति निश्चयलक्षणं अनुमन्ये, केषां ?-सम्यगअविपर्यस्ता दृष्टिः-दर्शनं येषां ते सम्यग्दृष्टयः तेषां सम्यगदृष्टीना, अविरतानामपि सुरैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनामिवेत्यर्थः॥५७॥ अथ सर्वानुमोदनासंग्रहमाह-'अथवे ति सामान्यरूप Page #50 -------------------------------------------------------------------------- ________________ ४५ प्रकारदर्शने 'चिअ' एवकारार्थे, ततः सर्वमेव वीतरागवचनानुसारि-जिनमतानुयायि यत् सुकृतं-जिनभवनबिंबकरणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थयात्राश्रीसंघवात्सल्यजिनशासनप्रभावनाज्ञानाद्यपष्टंभधर्मसानिध्यक्षमामार्दवसंवेगादिरूपं मिथ्याक्संबन्ध्यपि मार्गानुयायि कृत्यं कालत्रयेऽपि त्रिविधं मनोवाकायैः कृतं कारितमनुमतं च यदभूत् भवति भविष्यति चेति 'तकत्' इति तत्शब्दात् 'त्यादिसर्वादेः स्वरेष्वंत्या' ( श्री सि. अ. ७ पा. ३ सू. २६ ) दिति सूत्रेण स्वार्थेऽक्प्रत्यये रूपं, तदित्यर्थः, तत् सर्व-निरवशेषमनुमोदयामःअनुमन्यामहे, हर्षगोचरतां प्रापयाम इत्यर्थः, बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपच्या उपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थं ॥ ५८॥ तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः, अथ चतुःशरणादिकृत्ये यत्फलं स्यात्तद्गाथाद्वयेनाहसुहपरिणामो निच्चं चउसरणगमाइ आयरं जीवो । कुसलपयडीउ बन्धइ बडाउ सुहाणपन्धाउ ॥ ५९॥ मन्दणभावा बडा तिव्वणुभावाउ कुणइ ता चेव । असुहाउ निरणुबंधाउ कुणइ तिव्वाउ मन्दाउ॥६॥ शुभपरिणामः-प्रशस्तमनोऽध्यवसायः सन् नित्यं-सदैव चतुःशरणगमनादि-चतुःशरणगमनदुष्कृतगर्दासुकृतानुमोदनान्याचरन्--कुर्वन साधुप्रभृतिको जीवः कुशलं--पुण्यं तत्प्रकृतीः, Page #51 -------------------------------------------------------------------------- ________________ ४६ साउच्चगोअ मणुदुगे' त्यादिगाथोक्ताः द्विचत्वारिंशत्संख्याः बध्नाति, शुभाध्यवसायबध्यमानत्वात्तासां तथा ताथ प्रकृतीबद्धाः सतीः शुभाध्यवसायवशाच्छुभोऽनुबन्धः-- उत्तरकालफलT: विपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः ॥ ५६ ॥ तथा ता एव शुभप्रकृतीः प्राग्मन्दानुभावाद् बद्धाः -- स्वल्पशुभ परिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायवशात्तीवोऽनुभावो - रसो यासां तास्तीवानुभावा:-- अत्युत्कट रसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्घकालस्थितीः करोति अल्पप्रदेशका बहुप्रदेशकाव करोतीत्यपि ज्ञेयं, तथा 'असुहाउ 'ति यावाशुभा 'नाणंतरायदसग' मित्यादिगाथोक्ता व्यशीतिसंख्याः पूर्वं बद्धाः स्युस्ता निर्गतोऽनुबन्धः --उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःखमुत्तरकाले तस्य न भवतीत्यर्थः, तथा ता एव यास्तीब्राः - तीव्ररसाः प्राक् तीव्राशुभपरिणामेन बद्धास्ता मन्दा:- मन्दरसाः करोति चतुः शरणगमनादिरूपशुभाध्यवसायबलाद्, अत्रापि उपलक्षणाद्दीर्घ कालस्थितीरल्पकालस्थितीर्बहुप्रदेशका अल्पप्रदेशकाच करोतीत्यपि ज्ञेयं, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां ह्राससम्भवात्, वन्दन कदानात् श्रीविष्णोरिवेत्यर्थः ॥ ६० ॥ उक्तं चतुःशरणप्रतिपत्त्यादेर्महत्फलं; अत एव तदवश्यं कर्त्तव्यमिति दर्शयति Page #52 -------------------------------------------------------------------------- ________________ ४७ ता एयं कायव्वं बुहेहि णिच्चपि संकिलेसम्मि । होइ तिकालं सम्मं असंकिलेसंमि सुगई(कय)फलं।६।। 'ता' इति तस्मात्कारणात 'एयंति एतदनन्तरोक्तं चतुःशरणादि कर्तव्यमिति--विधेयं विबुधैः--अवगततचैर्नित्यमपि-सततमपि, कस्मिन् ?--संक्लेशे-रोगाद्यापद्रपे, एतेन यथा कर्षकैः शाल्यादिवीजं शस्यनिष्पत्तये उसमपि पलालाधानुषङ्गिकं जनयति एवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्यपसर्गोपशान्ति तनोतीति दर्शितं, तथा असंक्लेशो-रोगाद्यभावस्तस्मिन् चतुःशरणादि भवति त्रिकालं.-सन्ध्यात्रयरूपे काले विधीयमानमिति शेषः, सम्यग्मनोवाकायोपयुक्ततया, कथं भवतीत्याह-'सुगईफलं'ति शोभना गतिः सुगतिः-स्वर्गापवर्गरूपा सैव फलं यस्य तत्सुगतिफलं, स्वर्गमोक्षप्राप्तिफलमित्यर्थः, सम्यक्चतुःशरणादिकृतां साधूनामुत्कर्षतो मोक्षं यावत् श्राद्धानामच्युतं यावच्च गतेः श्रीसिद्धान्ते प्रोक्तत्वात् , 'सुकयफल मिति पाठे तु सुकृतं-पुण्यं शुभानुवन्धि तत्प्राप्तिः फलं भवतीत्यर्थः ।। ६१ ॥ अथ योऽतीव दुर्लभां मनुष्यत्वादिसामग्री प्राप्यापि चतुःशरणादि प्रमादादिना न कृतवान् तं शोचयति चउरंगो जिणधम्मो न कओ चउरंगसरणमवि न कयं। चउरंगभवुच्छेओ न कओ हा हारिओ जम्मो ॥६२॥ Page #53 -------------------------------------------------------------------------- ________________ ४८ चत्वारि-दानशीलतपोभावनारूपाणि अङ्गानि यस्य स चतुरङ्गो-दानादिचतुष्प्रकार इत्यर्थः जिनधर्म:-अर्हद्धर्मों न कृतो-न विहितः आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात् , तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्ग शरणमपि-अहंसिद्धसाधुधर्मरूपमपि न कृतं, तथा चतुरङ्गभवस्यनरकतियनरामरलक्षणस्य छेदो-विनाशो विशिष्टचारित्रतपश्वरणादिना न कृतो येनेत्यध्याहायं तेन 'हा' इति खेदे हारितं-वृथा नीतं जन्म-मनुष्यभवः, प्राकृतत्वात्पुंस्त्वं, तस्य हारणं च अकृतधर्मस्य जीवस्य पुनरतिशयेन मानुषस्य दुष्प्रापत्वाद् अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मा अन्त्यसमये संजातविवेकः स्वयमात्मानं शोचयति-चतुरङ्गो जिनधर्मो मया न कृत इत्यादि हा मया हारितं-निष्फलीकृतं मनुष्यजन्म, देवा अपि विषयप्रमादादकृतजिनजन्मोत्सवादिपुण्याश्च्यवनसमये अनेनैव प्रकारेण खेदं कुर्वन्ति ॥ ६२ ।। अथ प्रस्तुताध्ययनोपसंहारमाहइइजीव पमायमहारि(जिअ)वीर-भद्दन्तमेवमज्झयणं। झाएसु तिसंझमवंझकारणं निव्वुहसुहाणं ॥६३ ॥ ___ 'इति'उक्तप्रकारेण हे जीव-! हे आत्मन् ! एतदध्ययनं ध्याय-स्मर त्रिसन्ध्यं-संध्यात्रये इति संबन्धः, कथंभूतं ?'पमायमहारिवीरं'ति प्रमादा एव महान्तोऽरयः-शत्रवः, चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वात्प्रमादस्य, Page #54 -------------------------------------------------------------------------- ________________ ४ तेषां प्रमादमहारीणां विनाशाय वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः, पुनः कथंभूतं ?-भद्रमन्ते यस्मात्तद्भद्रान्तं-मोक्षप्रापकमित्यर्थः, अथवा हे वीर हे भद्रेति संबोधनपदद्वयं जीवस्योत्साहवृद्धिहेतुः, 'अंत'मिति जीवितान्तं यावदेवैतदध्ययनं ध्यायेत्यर्थः, पुनः किंभूतं ?-अवन्ध्यकारणंसफलकारणं, केषां -निवृत्तिः-मोक्षस्तत्सुखानामिति, 'जिअ' इति पाठे तु जितप्रमादमहारिपुर्योऽसौ वीरभद्रः साधु: श्रीवीरसत्कचतुर्दशसहस्रसाधुमध्यवर्ती तस्येदं जितं तदेतदध्ययनं ध्यायेत्यादि, एवं शास्त्रकतु: समासगर्भमभिधानमुक्तं, अस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन यस्य जिनस्य यावन्तो मुनयो वैनयिक्यौत्पत्तिक्यादिबुद्धिमन्तः प्रत्येकबुद्धा अपि तावन्त एव प्रकीर्णकानि अपि तावन्ति भवन्तीति ज्ञापितं भवतीति गाथार्थः ॥ ६३ ॥ ॥ इतिश्रीचतुःशरणप्रकीर्णकावचूर्णिरियं सम्पूर्णा ॥ Page #55 -------------------------------------------------------------------------- ________________ चार शरण : राग-धनाश्री वसंत (जिनवर परम दयाल) चार शरण सुखकार भविया, चार शरण सुखकार. प्रथम शरण अरिहंत प्रभुनु, बार गुणे हितकार....भविया० बीजु शरण सिद्ध बुद्ध महंतनु, अजरामर पदधार....मविया० त्रीजु शरण साधु साधु गुरुनु, करुणा रस भण्डार....भविया० चोथु शरण शुभ जैनधरमनु, दुःख टाली सुख दातार....भविया० लाख चोराशी हुँ जीव खमावु, वैर न राखु लगार....मविया० शुभ करणी सवि भलि हुं मानु, पापने निंदु अपार...भविया० मन वचन काये जे पाप कर्यां में, मिथ्या थाओ आवार....मविया० मात पिता भाई नारीने छोडी, कयारे थईशु प्रणगार....मविया० नवकार मंत्रनु ध्यान धरता, पामीए भवजल पार....भविया० छोडी लोलुपता अवसर पामी, अणसण करीए श्रीकार....भविया० ओचितु जो मुज मरण होवे, तो सवि त्याग निरधार....भविया० जन्म जरा मरणादिके भरियो, आ संसार असार....मविया० कयाँ करम समभावे भोगवीए, कोई न राखणहार....भविया० ते माटे शरण ए चित्तमां पारु, शमामृत देनार... मविया Page #56 -------------------------------------------------------------------------- ________________ मुद्रक:गौतम आर्ट प्रिन्टर्स, नेहरू गेट बाहर, ब्यावर (राज.)