SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ शोध्यन्ते इति भावो, महन्निर्जराकारणत्वात् तस्य, प्राक् 'नाणाइआ ' इत्यत्र ज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तं 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच्च विवक्षया चरणादय इति ॥ ६ ॥ एवं गाथापञ्चकेना[ति]चारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाहगुणधारणरूवेणं पञ्चक्खाणेण तवइयारस्स । विरियायारस्स पुणो सव्वेहिवि कीरए सोही ॥ ७ ॥ 'गुणधारणे' त्यादि, गुणा - विरस्यादय उत्तरोत्तरा यथा विरतेराश्रवद्वारस्थगनं तत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादतुलोपशमस्तस्मात्प्रत्याख्यानशुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्माकर्म विवेकस्तस्मादपूर्वकरण म पूर्व करणात्केवलज्ञानं ततश्च मोक्षो भवतीति तेषां गुणानां धारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन - 'अणागयमइक्कतं' इत्यादिदशविधेन अथवा पञ्चमहाव्रतद्वादशश्राद्धव्रतनमस्कार सहिता दिदशप्रत्याख्यानरूप सप्तविंशतिविधेन वा तपआचारातिचारस्य - 'बारसविहंमिवि तवे' इति गाथोक्तस्य शुद्धिः क्रियते इति संटकः, 'विरियापारस्स'त्ति विशेषेण ईरयति - प्रेरयति आत्मानं तासु तासु क्रियास्विति वीर्यं --तपोवीर्य - गुणवीर्य - चारित्रवीर्य -- समाधिवीर्य - आत्मवीर्यभेदभिन्नं पञ्चविधं तस्याचारो वीर्याचारः 'अणिमूहिअबलविरिए' इत्यादिकस्तस्य सर्वैरपि
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy