________________
पूर्वोक्तैः षड्भिरप्यावश्यकैः शुद्धिः क्रियते, अन्यूनाधिकावश्यककरण प्रयत्नेन वीर्याचारशुद्धिर्भवत्येव, महाकर्मनिर्जराहेतुत्वात् ॥ ७ ॥ उक्ता आचारपञ्चकशुद्धिः, अथ सर्वजिन - गुणोत्कीर्तनगर्भ मङ्गलभूतं गजादिस्वप्न संदर्भमाह
गय १ वसह २ सोह ३, अभिसेय ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुम्भं ९ । पउमसर १० सागर ११ विमाणभवण १२ रयणुच्चय १३ सिहिं १४ च ॥ ८ ॥
गाथा सुगमा, नवरं 'अभिसेअ' त्तिं चतुर्थस्वप्ने पार्श्वद्वयवर्तिकरिकलभशुण्डादण्ड विधृतकलशयुगला भिषिच्यमानां लक्ष्मीं जिनमाता पश्यति, 'विमाणभवण'त्ति द्वादशस्वप्ने देवलोकाततीर्थकृञ्जननी विमानं पश्यति नरकागतजिनजननी तु भवनं, विमानभवनयोराकारमात्रकृत एव विशेषः, गजदर्शनात्स्वाम्यपि तद्वदतुल पराक्रम निधिर्भावी, वृषभदर्शनात् महामोहपङ्कमनधर्मरथधुरोद्धरणक्षमो भरते धर्मवीजवापनिमित्तं च भावीति स्वप्नैरपि जिनगुणाः सूच्यन्ते, चतुर्दशस्वप्नसंख्यया तु चतुर्दशरज्ज्वात्मकस्यापि लोकस्योपरिवर्त्ती पुत्रो भविष्यतीति निवेद्यते इति सर्वतीर्थकृद्गुणवर्णनरूपं स्वप्नमङ्गलमुक्तम् ॥ ८ ॥ अथ श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावनां चाह -