________________
अमरिंद-नरिंद-मुणिंद-वंदिरं वंदि महावीरं। कुसलाणुबंधि-बन्धुर-मज्झयणं कित्तइस्सामि ॥९॥
'अमरिंदनरिंद'त्ति उपक्रमकृतेनापमृत्युना न म्रियन्ते इत्यमरास्तेषां इन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्रा मुनीन:मिन्द्रा मुनीन्द्राः द्वन्द्वः तैर्वन्दितं 'वन्दिउंति वन्दित्वा, कं ?--'महावीरं' महद्वीयं यस्यानन्तबलत्वाद्देवकृतपरीक्षायामपि मनागप्यक्षुभितत्वाच्च महावीरस्तं 'कुसलाणुबंधि'त्ति कुशलो-मोक्षस्तं अनुवन्धीति--परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा षन्धुरं-मनोज्ञ, जीवानां ऐहिकामुष्मिकसमाधिहेतुत्वात, किं ?--अधीयते--ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययनं--शास्त्र, कीर्तयिष्यामि--कथयिष्यामीति सम्बन्धः ॥ ६ ॥ अथ प्रस्तुताध्ययनार्थाधिकारानाहचउसरणगमण १ दुक्कडगरिहा २ सुकडाणमोअणा ३ चेव एस गणो अणवरयं कायव्वो कुसलहेउत्ति ॥१०॥ ___ 'चउसरण'त्ति चतुर्णामहत्सिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्दा-गुरुसाक्षिकमास्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना--भव्यं मयतत्कृतमिति तृतीयोऽधिकारः, 'चैवेति समुच्चये, एषः-अयं गणः-त्रयाणां समुदायोऽनवरतं--सततं कर्तव्यः--अनुसरणीयः कुशलो-मोक्षस्तस्य कारणमयमितिकृत्वा ॥ १० ॥ अथ चतुःशरणरूपं प्रथमाधिकारमाह