________________
अरिहंत १ सिद्ध २ साहू ३ केवलिकहिओ सुहावहो धम्मो ४ । एए चउरो चउगह
हरणा सरणं लहइ धन्नो ॥ ११॥ 'अरहते'त्यादि, देवेन्द्रकृतां पूजामहन्तीत्यर्हन्तः १ तथा सिध्यन्ति--निष्ठितार्था भवन्तीति सिद्धाः २ तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः ३ तथा दुगतौ पतन्तं प्राणिनं धरतीति धर्मः, किंभूतः -- केवलिभिः-ज्ञानिभिः कथितः--प्रतिपादितः केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरासमाह, पुनः कथम्भूतो धर्म: ?-सुखमावहति-परम्परया चटत्प्रकर्ष प्रापयतीति सुखावहः, अनेन इहलोकेऽपि मिथ्यादृष्टिधर्मस्य भैरवपतन-शिरःक्रकचदापनादि-दुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तन्निषेधमाह, एतेऽर्हत्सिद्धसाधुधर्माश्चत्वारश्चतसृणां गतीनां समाहारश्चतुर्गति-नरकतिर्यमरामरलक्षणं हरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः ॥ ११ ॥ अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽहअह सो जिणभत्ति-भरुत्थरंत-रोमंचकंचुअ-करालो । पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥१२॥