________________
४५
प्रकारदर्शने 'चिअ' एवकारार्थे, ततः सर्वमेव वीतरागवचनानुसारि-जिनमतानुयायि यत् सुकृतं-जिनभवनबिंबकरणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थयात्राश्रीसंघवात्सल्यजिनशासनप्रभावनाज्ञानाद्यपष्टंभधर्मसानिध्यक्षमामार्दवसंवेगादिरूपं मिथ्याक्संबन्ध्यपि मार्गानुयायि कृत्यं कालत्रयेऽपि त्रिविधं मनोवाकायैः कृतं कारितमनुमतं च यदभूत् भवति भविष्यति चेति 'तकत्' इति तत्शब्दात् 'त्यादिसर्वादेः स्वरेष्वंत्या' ( श्री सि. अ. ७ पा. ३ सू. २६ ) दिति सूत्रेण स्वार्थेऽक्प्रत्यये रूपं, तदित्यर्थः, तत् सर्व-निरवशेषमनुमोदयामःअनुमन्यामहे, हर्षगोचरतां प्रापयाम इत्यर्थः, बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपच्या उपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थं ॥ ५८॥
तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः, अथ चतुःशरणादिकृत्ये यत्फलं स्यात्तद्गाथाद्वयेनाहसुहपरिणामो निच्चं चउसरणगमाइ आयरं जीवो । कुसलपयडीउ बन्धइ बडाउ सुहाणपन्धाउ ॥ ५९॥ मन्दणभावा बडा तिव्वणुभावाउ कुणइ ता चेव । असुहाउ निरणुबंधाउ कुणइ तिव्वाउ मन्दाउ॥६॥
शुभपरिणामः-प्रशस्तमनोऽध्यवसायः सन् नित्यं-सदैव चतुःशरणगमनादि-चतुःशरणगमनदुष्कृतगर्दासुकृतानुमोदनान्याचरन्--कुर्वन साधुप्रभृतिको जीवः कुशलं--पुण्यं तत्प्रकृतीः,