SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४४ अनुमन्ये, तथा उपाध्यायत्व-सिद्धान्ताध्यापकत्वरूपमुपाध्यायेऽनुमन्ये इति ।। ५६ ॥ तथा साधूना-सामायिकादिचारित्रवतां पुलाकबकुशादिमेदभिन्नानां जिनकल्पिकप्रतिमाधरयथालन्दिकपरिहारविशुद्धिककल्पातीतप्रत्येकबुद्धबोधितादिभेदैरनेकविधानां सर्वकालक्षेत्रविशेषितानां साधुचरितं-चरणादिक्रियाकलापं ज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपं वाऽनुमन्ये, 'साहुकिरिय'-मिति पाठान्तरे तु साधुक्रियां-सर्वसाधुसामाचारीरूपां इत्यर्थः, तथा देशविरति-सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतकादशप्रतिमादिरूपां, केषां ?-'श्रांपाके 'श्रान्तिपचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः 'टुवपी बीजसंताने' वपन्ति-जिनभवनादिसप्तक्षेत्रेषु निजधनबीजानि इति वाः 'कन विक्षेपे' किरन्ति-विक्षिपन्ति क्लिष्टकमरज इति काः, श्राश्च वाश्च काश्च श्रावकास्ते च ते जनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये, तथा सर्वेषां सम्यक्त्वं सम्यक्त्वंजिनोक्ततत्त्वश्रद्धानरूपं 'तमेव सच्चं निस्संकंजं जिणेहिं पवेइमिति निश्चयलक्षणं अनुमन्ये, केषां ?-सम्यगअविपर्यस्ता दृष्टिः-दर्शनं येषां ते सम्यग्दृष्टयः तेषां सम्यगदृष्टीना, अविरतानामपि सुरैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनामिवेत्यर्थः॥५७॥ अथ सर्वानुमोदनासंग्रहमाह-'अथवे ति सामान्यरूप
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy