________________
४३
अह सो दुक्कडगरिहा- दलिउक्कडदुक्कडो फुडं भणई । सुकडाणुरायसमुइण्ण-- पुण्णपुलयं कुरकरालो ॥ ५५ ॥ अरिहत्तं अरिहंतेसु जं च सिद्धत्तणं च सिडेसु । आयारं आयरिए उवज्झायत्तं उवज्झाए ॥ ५६ ॥ साहूण साहुचरिअं (किरिअं ) देसविरहं च सावयजणाणं । अणुमन्ने सव्वेसिं सम्मन्तं सम्मदिट्ठीणं ॥ ५७ ॥ अहवा सव्वं चिप घीअरायवयणाणुसारि जं सुकडं । कालत्तएवि तिविहं (विहियं) अणु मोएमो तयं सव्वं ॥ ५८
'अथे'ति दुष्कृतगर्हानन्तरं सः - साध्वादिको जीवः, कथम्भूतः ? – दुष्कृतगर्हया- दुश्चरित्र निन्दनेन दलितानि - चूर्णीकृतानि उत्कटानि - प्रबलानि दुष्कृतानि - पापानि येन स तथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः, एवं विधः सन् स्फुटं यथा स्यादेवं भणति पुनः स किंभूतः ? - सुकृतानुरागेण सुचरित बहुमानेन समुदीर्णाः सञ्जाताः पुण्यबन्धहेतुत्वात् पुण्याः - पवित्रा ये पुलकाकुरा - रोमोद्गमविशेषाः तैः करालो - व्याप्तः कर्मवैरिणं प्रति भीषणो वा ।। ५५ ।
यद्भाषते तगाथाद्वयेनाह - अर्हत्त्वं तीर्थंकरत्वं प्रतिदिनं द्विर्धर्मदेशनाकरणभव्यनिकरप्रतिबोधन तीर्थप्रवर्त्तनादिकं अर्हत्सु तदनुमन्येऽहमिति सम्बन्धः, यच्च सिद्धत्वं - सदा केवलज्ञानोपयुक्तत्वसर्वकर्म विमुक्तत्वनिरुपमसुखभोक्तृत्वादिरूपं सिद्धेषु अनुमन्ये, तथाऽऽचारं - ज्ञानाचारादिरूपं पश्चविधमाचार्येषु