SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २३ साधुगुणेषु जनितः-उत्पादितोऽनुरागो-बहुमानो यस्य स नयब्रह्महेतुसाधुगुणजनितानुरागः शरणप्रतिपत्ता साध्वादिःकेनास्यानुरागः कृत इत्याह-सिद्धशरणेन-पूर्वोक्तेन, पुनः कथंभूतः सः ?-मेदिन्याः-पृथ्व्या मिलत्-लुठत् सुप्रशस्तं भक्तिभरनम्रत्वान्मस्तकं-उत्तमाङ्ग यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः, एवंविधः स साधुगुणरागी भूतलन्यस्तमौलिः सन् तत्रेतिशरणप्रस्तावे इदं-वक्ष्यमाणं भणति-वक्ति ॥३०॥ यदयं भणति तन्त्रवभिर्गाथाभिराह-जिअलोअ'त्ति, जीवलोकस्य-प्राणिवर्गस्य षड्जीवनिकायात्मकस्य त्रिविधं त्रिविधेन रक्षाकारित्वात् बन्धव इव बन्धवः, कुत्सिता गतिः कुगतिः, नरकतियगादिरूपा सैव सिन्धु:-महानदी समुद्रो वा तस्यास्तस्य वा पारं-तीरं गच्छन्तीति पारगाः-तीरवर्तिनः सुगतिगामित्वादेव साधूनां, तथा महान भागः-अतिशयविशेषो येषां ते तथाऽनेकलब्धिसम्पन्नत्वात्तेषां, तथा ज्ञानादिकैः-ज्ञानदर्शनचारित्रैरेव शिवसौख्यं-मोक्षशर्म साक्ष्यन्ति ये ते शिवसौख्यसाधकाः, एतेन तीर्थान्तरीयैर्यत्स्नादिक्रियाभिर्मोक्षसाधनमुक्तं तन्निरासः कृतो द्रष्टव्यः, त एवंविधाः साधवो मम शरणं भवन्तु ॥ ३१ ॥ साधुभेदानाह-'केवलं' असहायं-मत्यादिज्ञानानपेक्षं सर्वद्रव्यपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः, 'परमोहि'त्ति अवधिः-मर्यादा रूपिद्रव्येषु प्रवृत्तिरूपा तदु
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy