________________
9
पलक्षितं ज्ञानमप्यवधिः परमश्चासाववधिश्च परमावधिः यदुत्पत्तेरनन्तरमवश्यमन्तमुहूर्त्तेन केवली भवति उत्कृष्टमवधिज्ञानमित्यर्थस्तद्योगात्साधवोऽपि परमावधयः, उत्कृष्टावधिसाघुमणनेन जघन्य मध्यमावधयोऽपि साधवोऽन्तर्भाविता ज्ञेयाः, 'विउलमह'त्ति मनःपर्यायज्ञानं द्विधा - ऋजुमतिविपुलमतिभेदात् तत्र विपुला मतिॠ जुमत्यपेक्षया विशिष्टज्ञानवत्वेन येषां ते विपुलमतयः, इह विपुलमतिग्रहणेन ऋजुमतयोऽपि गृहीता ज्ञातव्याः, द्वयेषामप्येषां मनुष्यक्षेत्रान्तर्वति संज्ञि पञ्चेन्द्रियमनोद्रव्य परिच्छेदकत्वात्, बह्वल्पपर्यायग्रहणादिनैव विशेषाच्च, तथा श्रुतं - कालिकोत्कालिकाङ्गप्रविष्टानङ्गप्रविष्टादिलक्षणं सूत्रार्थोभयरूपं धरन्ति - योग्य शिष्यप्रशिष्यादिप्रदानेनाव्यवच्छिन्नं कुर्वन्तीति श्रुतधराः सामान्यतः सर्वेऽपि विशेपेण तु आचार्यन्ते -- आसेव्यन्ते मोक्षार्थिभिरित्याचार्याः-पञ्चविधाचारधारिणः सूत्रार्थोभयवेदिनो गच्छावलम्बनभूताः षट्त्रिंशद्गुणवन्तोऽर्थव्याख्यान कारिणः, उपेत्य -- आगत्य अधीयते येभ्य इत्युपाध्यायाः -- सूत्रार्थोभयवेदिनो द्वादशाङ्गसूत्राध्यापका उपाध्यायाः, एते च आचार्योपाध्यायाः सामान्यतो लौकिकाः कलाचार्यादयोऽपि लभ्यन्ते इति तद्व्यवच्छेदायाह - ' जिणमयं मि'त्ति जिनमते -- जिनशासने ये आचार्योपाध्यायाः, एतद्ग्रहणं चोपलक्षणम्, तेन प्रवर्तकस्थविरगणावच्छेदका अध्यत्र गृहीता ज्ञातव्याः, सर्वशिष्यान्