________________
३०
मनोऽभिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवचनोक्तक्रियासु रमयन्ति-क्रीडयन्तीत्यात्मारामाः, यद्वा आराममिव-भव्यजीवानां क्रीडास्थानमिव आत्मा येषां हर्षहेतुत्वात्ते तथा, अथवा आचारं-पश्चप्रकारममन्ति-गच्छन्तीत्याचारामाः मन्यन्ते-बुध्यन्ते जगतः कालत्रयावस्थामिति मुनयः-साधवस्ते शरणं भवन्तु ॥ ३६ ॥ ____ 'मिल्हिअ'त्ति मिल्हिताः-अपास्ता विषयाः-शब्दाद्याः कषायाश्च-क्रोधाद्या यैस्ते तथा, विषयकषायरहिता इत्यर्थः, तथा गृहं-अगारं गृहिणी-कलत्रं तयोः सङ्गः-संवन्धस्तस्माद्यः सुखास्वादः-सुखानुभवः स उज्झितः-परिहतो यैस्ते तथा निष्परिग्रहा निस्सङ्गाश्चेत्यर्थः, तथा न कलितौ-नाश्रितौ हर्षविषादौ-प्रमोदवैमनस्ये यैस्ते तथा, समभावव्यवस्थिता इत्यर्थः, तथा गतः प्रमादो येभ्यस्ते तथाऽप्रमत्ता इत्यर्थः, 'विहुअसोआ'इति तु पाठे विधूतानि श्रोतांसि-आश्रवद्वारलक्षणानि यः यद्वा विधुतः-क्षिप्तः शोकः-चित्तखेदो यस्ते तथा, विधूतासंयमस्थाना गतशोका वेत्यर्थः, ते साधवः शरणं भवन्तु ॥ ३७॥
हिंसा आदियेषां ते हिंसादयः ते च दोषाश्च, आदिशब्दादलीकभाषणपरस्वापहारस्त्रीसेवापरिग्रहादीनां ग्रहः, हिंसादिदोषैः शून्याः-तैविरहिता इत्यर्थः, तथा कृतं-विरचितं कारुण्यं-जीवलोकोपरि दुःखप्रहाणेच्छा यैस्ते तथा सर्वजीवेषु