________________
कृपाईचेतस इत्यर्थः, तथा जीवाजीवादिपदार्थानां जिनोक्तानां यथास्थितत्वेन रोचनं-मननं श्रद्धानं रुक् सम्यक्त्वमित्यर्थः प्रज्ञानं प्रज्ञा-बुद्धिः सम्यग्ज्ञानमित्यर्थः, स्वयं भवति इति स्वयम्भूः स्वयम्भुवौ रुक्प्रज्ञे-सम्यक्त्वज्ञाने येषां ते स्वयम्भूरुक्प्रज्ञा यद्वा स्वयंभुवा-स्वयम्भूतेन सम्यक्त्वेन क्षायिकादिना पूर्णाः, दूरीकृतमिथ्यात्वा इत्यर्थः, 'पुन्न'इति पाठे इयं व्याख्या, यद्वा स्वयंभूशब्देन स्वयम्भूरमणः समुद्र उच्यते "भीमो भीमसेन' इति वत् , ततस्तत्तुल्ये विस्तीर्ण ऋक्प्रक्षे तेषां ते तथा, अथवा 'स्वयम्भरप्पन्ना' इति पाठे स्वयंभरा:-आत्मनिर्वाहकाः कस्याप्यनाश्रितत्वेनोत्पन्ना-व्यवस्थिताः स्वयंभरोत्पन्नाः, तथा न विद्यते जरामरौ यत्र तदजरामरं-निर्वाणं तस्य पथो-मार्गस्तदुपदर्शकत्वात्प्रवचनशास्त्राणीत्य तेषु क्षुण्णा:-निपुणाः, सम्यक्तत्त्वस्य वेदिन इत्यर्थः, क्षुण्णः-पुनः पुनः परिशीलनेनासेवितोऽजरामरपथो-मोक्षमार्गो ज्ञानदर्शनचारित्रलक्षणो यैस्ते तथा, प्राकृतत्वात् क्षुण्णशब्दस्य परनिपातः, 'अजरामरबहुखुन्ना' इति पाठे तु अजरामरे-निर्वाणे वर्णयितव्ये बहु प्रभूतं यथा भवत्येवं क्षुण्णाः-सम्यग्मोक्षस्वरूपप्रकाशका इत्यर्थः, ते साधवः शरणं भवन्तु, पुनः किंभूतः-सुष्टु-अतिशयेन कृतं पुण्यं-चारित्रप्राप्तिलक्षणं एज्यद्भवयोग्यं स्वर्गादिलाभलक्षणं वा यैस्ते सुकृतपुण्याः, यद्वा सुकृतैः-तपःप्रभृतिभिः पूर्णा-भृताः संचितप्रभूत