________________
तपस इत्यर्थः ॥ ३८॥
काम्यते-अभिलष्यते विषयार्थिभिरिति कामस्तस्य कामस्य--स्मरजनितविकारस्य या विडम्बना-नाना विक्रियास्ताभिः परिवेष्टनं तस्याः 'चुक'त्ति प्राकृतत्वाच्च्युतास्तया रहिता ज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः, तथा कलिमलंपापं तेन मुक्ताः पवित्रचारित्रनीरेण तं प्रक्षालितवन्त इत्यर्थः, तथा 'विविक'त्ति विविक्तं-अदत्तादाननियमेन आत्मनः पृथक्कृतं चौरिक्यं-चौर्य यैस्ते तथा स्वामिजीवतीर्थकृद्गुवनुज्ञातवस्त्रभक्तपानादिग्रहणेन सर्वथापि तं परिहतवन्त इत्यर्थः, तथा पातयति दुर्गतौ जीवानिति पापं तदेव रजः पापरजः तत्कारणत्वात् पापरजश्व तत्सुरतं-मैथुनं च पापरजःसुरतं तेन रिक्था:-तत्यागिनो, नवगुप्तिसनाथब्रह्मव्रतधरणाद् , एवंविधाः साधवः शरणं, किंभूताः साधवः ?-गुणा-व्रतषटकादयः त एव रत्नानि तैः चच्चिकत्ति--दीप्तिमन्तस्तमण्डिता इत्यर्थः, यद्वा साधूनां गुणाः साधुगुणा इत्येवं कार्य, प्राकृतत्वादीर्घत्वं, साधव इति विशेष्यं तु प्रस्तावादेव लभ्यते ॥३६॥
नन्वत्र साधुशरणाधिकारे ज्येष्ठपदवर्तित्वेनाचार्यादयः कथं गृह्यन्ते इति संशयापनोदायाह-साधुत्वे--साधुस्वरूपे समभावपरसाहाय्यदानमुक्तिसाधकयोगसाधनादिलक्षणे सुष्टुअतिशयेन स्थितास्तत्सेविन इत्यर्थः यद्वा साधुत्वेन सुस्थिता:समाहिताः साधुत्वसुस्थिताः यद्-यस्मात्कारणादाचार्यादयः