________________
२९
विरोधा अत एव नित्यं - सततमद्रोहाः - परद्रोहवर्जिताः, वैरवत एव परद्रोहाभिप्राय सद्भावात्, यत एवाद्रोहा अत एव प्रशान्ता - प्रसन्ना मुखशोभा वदनच्छाया येषां ते तथा, परद्रोहिणां हि मुखं विकरालं स्यादिति यत एवंरूपा अत एवाभिमतःप्रशस्यः पाठान्तरेऽभिगतस्सहचारी वा गुणसंदोहो- गुणनिकरो येषां ते तथा, एवं विधानां च ज्ञानातिशयः स्यादिति हतो मोह :- अज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु ।। ३५ ।
,
खण्डितानि त्रोटितानि स्नेहरूपाणि दामानि-रजव: आर्द्रकुमारेणेव आत्मनो हस्तिनो वा यैस्ते खण्डित स्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामोविषयाभिलाषो धामानि च गृहाणि येषां छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा न विद्यन्ते कामधामानि - विषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरभ्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम - स्थानं अकामधामाः, प्राकृतत्वात्पुंस्त्वं, यत एवंविधा अत एव निष्कामं - निर्विषयं यत्सुखं - मोक्ष संबन्धि तद्विषयोऽभिलाषो येषां ते तथा, निर्वि पयस्यैव शिवशर्माभिलाषुकत्वात् मोक्षसुखाभिलाषिण इत्यर्थः, तथा सत्पुरुषाणां - आचार्यादीनां इङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनां मनः - चित्तमभिरमयन्ति - आनन्दयन्तीति सत्पुरुष