SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्रूपाणां सम-समकालमेव छित्त्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्ते' ति पाठे समुच्छिद्येति ज्ञेयं, त्रिभुवनमनुशास्यशिक्षयित्वा अनुशासयन्तो वा सम्यक्त्वदेशविरतिसर्व विरतिलक्षणशिक्षाप्रदानेन, मोक्षं यान्तीति योगः, शेषं तथैव ॥१९॥ 'वयणा' इति वचनमेवामृतं वचनामृतं क्षत्पिपासादिदोषापहारकत्वात् तेन वचनामृतेन भुवनं-लोकं निर्वाप्यतस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु-उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्तादिकेषु प्रागुफ्तं भुवनमेव स्थापयित्वा स्थापयन्तो वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकं, अभव्यास्तु तीर्थंकरोपदेशेनापि नावबुध्यन्ते, तमुद्धृत्य उद्धरन्तो वा भवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेषं पूर्ववत् ॥ २० ॥ ___ 'अच्चम्भुअ'त्ति अत्यद्भुता-अन्येष्वसंभविनो ये गुणा:प्रातीहार्यादिलक्षणाः अन्ये वा रूपादयस्ते विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान् , तथा निजयश एव शशधरः--चन्द्रस्तेन प्रसाधिता--विभूषिता दिगन्ता--दिक्पर्यन्ता यैः 'पयासिअ' त्ति पाठे प्रकाशिता वा यैस्तान् नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते अनाधनन्तास्तान् शरणं प्रपन्नः तानाश्रित इत्यर्थः, एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः ॥ २१ ॥
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy