SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ७२ न्त्यमनन्तत्वात् सामर्थ्य-जीवशक्तिविशेषो बलं येषां ते तथा, मङ्गलरूपाः सिद्धाः-सम्पन्नाः पदार्था येषां ते तथा, यद्वा सांसारिकदुःखरहितं मङ्गलभूतं यत् सिद्धिपदं तत्र तिष्ठन्ति इति ते तथा, ते सिद्धाः शरणं भवन्तु, पुनः कथंभूताः १-सुखेन जन्मजरामरणक्षत्तपाद्याबाधारहितेन मुक्तिप्रभवेन प्रशस्ताः अव्याकुला अनन्तसुखा इत्यर्थः ॥ २५ ॥ ___ 'मूलुक्खय'त्ति, मूलादुत्खाता:-उन्मूलिताः प्रतिपक्षा:कर्मरूपा यैस्ते तथा, समूलनिर्मूलितकर्माण इत्यर्थः, 'मूलक्खए' त्ति पाठेऽयमों-मूलस्यसंसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकषाययोगरूपस्य शत्रुसङ्घातस्य क्षये कर्तव्ये प्रतिपक्षा इव-वैरिण इव तजयं कृतवन्त इत्यर्थः, तथा लक्ष्ये-द्रष्टव्यपदार्थेन मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषां, तथा सयोगिनांसयोगिकेवलिनामेव प्रत्यक्षा-दृश्याः, शेषज्ञानिनां अविषयत्वात् सिद्धानां, तथा स्वाभाविकं-अकृत्रिममात्तं-गृहीतमाप्तंप्राप्तं वा सुखं यैस्ते तथा, पुनः किंविशिष्टाः ?-परम:-प्रकृष्टोऽत्यन्तं विगमात्कमभिः सह मोक्षो-वियोगः पृथग्भावो येषां ते तथा, ते सिद्धाः शरणं भवन्तु ॥ २६ ।। 'पडिपिल्लिअ'त्ति, प्रतिप्रेरिताः-क्षिप्ता अनादृता इत्यर्थः प्रत्यनीकाः-शत्रवो यैः समशत्रुमित्रत्वात् , यद्वा प्रतिप्रेरितानिराकृताः प्रत्यनीका-रागाद्यान्तरशत्रवो यैस्ते तथा, समग्रं
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy