________________
सम्पूर्ण यद्धयानं परमलयः शुक्लध्यानमित्यर्थः तदेवाग्नि:वह्निस्तेन दग्धं-भस्मसात्कृतं भवस्य-संसारस्य बीजं-ज्ञानावरणीयादि कम यैस्ते तथा, योगीश्वरा-गणधराश्छद्मस्थतीर्थकरा वा तै शरणीयाः-आश्रयणीया नमस्करणध्यानादिना, तथा स्मरणीया-ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवं विधाः सिद्धाः शरणं भवन्तु ॥ २७ ॥
'पावित्ति,प्रापितः-आत्मजीवं प्रति ढौकितः प्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदामुदितत्वात्ते तथा, तथा गुणानां-ज्ञानदर्शनादीनां परिपाकप्राप्तत्वान्निस्स्यन्दः-सारो येषु ते तथा, सर्वसारज्ञानादिगुणा इत्यर्थः, विदीर्णो-विदारितः स्फाटितो भवस्य-संसारस्य मोहनीयादिकमरूपः कन्दो यैस्ते तथा, लोकालोकप्रकाशककेवलोद्योतेन लघुकीकृतौ-अल्पप्रभावीकृतौ रविचन्द्रौ यैः तदुद्योतस्य परिमितयोजनप्रकाशकत्वात्ते तथा, तथा क्षपितं-क्षयं नीतं द्वन्द्वं-संग्रामादिरूपं यैस्ते तथा, सर्वथा निष्कायत्वात् , ते एवं विधाः सिद्धाः शरणं भवन्तु ॥ २८॥
'उवल 'त्ति, उपलब्धं प्राप्तं परमब्रह्म-प्रकृष्टं ज्ञानं यैस्ते उपलब्धपरमब्रह्माणः, समवाप्तकेवलज्ञाना इत्यर्थः, तथा दुर्लभो लम्भः-लाभो मुक्तिपदप्राप्तिलक्षणो येषां, सर्वलाभासरत्वात्तल्लाभस्य सवैचारित्रादिक्रिय णां तल्लाभे एव साफल्याच,