________________
३४
साधुश्रावकाद्यन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्म शरणं कर्तु-प्रतिपत्तमिच्छन्नित्यध्याहाय, इदं वक्ष्यमाणं भणति, किंविशिष्टोऽसौ ?-प्रकृष्टो हर्षः प्रहर्षःवदनविकासादिचिह्नगम्यो मानसः प्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कञ्चुकस्तेनाञ्चिता-विभूषिता तनुःशरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकञ्चुकिततनुः, प्रमोदपूरिताङ्गः सन्नित्यर्थः ॥ ४१ ॥ ___ यद्भणति तदाह-प्रवरसुकृतैः-विशिष्टपुण्यैः प्राप्त लब्धं सम्यक्त्वदेशविरतिरूपं, धर्ममिति सम्बन्धः, अर्धपुद्गलपरावर्ताभ्यन्तरीभूतभवरेव भव्यजीवरासन्नसिद्धिकैः प्राप्यमानत्वात् , तथा पात्रैरपि-भाग्यवद्भिरपि ब्रह्मदत्तचक्रयादिभिरिव कैश्चित नवरीति-पुनरर्थे न प्राप्तं-नासादितं, पात्रत्वं च ब्रह्मदत्तस्य चक्रित्वलाभात , देवेन्द्रचक्रवर्त्यादिपदानि हि भव्यानामेव भवन्तीति, तमेवंभूतं केवलिभिः केवलज्ञानोपलब्धसमस्ततत्त्वैः प्रकाशितं धर्म-श्रुतधर्मचारित्रधर्मरूपं शरणं प्रपन्नोऽहमिति ।४२ _____ अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह-प्राप्तेनाप्राप्तेनापि -लब्धेनालब्धेनापि, केनेत्याह-येन जैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्र प्राप्तेन, यथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं-युगलिकसुखं प्राप्तं, अप्राप्तेनापि च यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्व, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः अप्राप्तेन धर्मेण