________________
३७
जननं सर्वरोगनाशनं वस्तु अमृतमुच्यते तदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वाद् बहुमतः सर्वस्याप्यतिशयेनाभीष्ट इत्यर्थः, तं प्रक्रमायातं जिनधर्म, न केवलं जिनधर्म, किन्तु जिनप्रवचनमपि-द्वादशाङ्गरूपं पूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्नः-आश्रित इत्यर्थः ॥ ४५ ॥
प्रकर्षण कटुविपाकतादर्शनेनोपशमं नीतः कामस्य प्रकृष्टो मोहः-उन्मादो मीहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तिसद्भावात् , तथा दृष्टादृष्टे-दृष्टा-दृष्टविषया ये बादरैकेन्द्रियादयो जीवाः पुद्गलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः सर्वलोकवृत्तिसूक्ष्मैकेन्द्रियादिजीवा धर्माधर्मास्तिकायादयोऽजीवाश्च, स्वर्गनरकादयो वा येऽतिशयज्ञानज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषु न कलितोन प्राप्तो विरोधो-विपरीतप्ररूपणारूपो येन स तथा तं, केवलिप्रज्ञप्तत्वात् यथावस्थितस्वरूपावेदकमित्यर्थः, तथा शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं, अत एव न मोघोऽमोघः-- अवन्ध्यः सफल इत्यर्थः तमेवं प्रकारं धर्म शरणं प्रपन्नोऽहमिति ॥ ४६॥
पापकारिणो नरान् कायन्ति--आह्वयन्तीति नरका--रत्नप्रभादिषु सीमन्तकाद्यास्त एव गम्यन्ते इति गतिस्तत्र यद्गमनं तद् रुणद्धि-निवारयतीति नरकगतिगमनरोधस्तं, तथा गुणानां-क्षान्त्यादीनां संदोहः-समुदायो यत्र स तथा तं,