________________
यत एवंविधोऽत एव कृतं शुभं जन्म कम वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिप्राप्तिलक्षणं येन स कृतशुभजन्मा कृतशुभकर्मा वा, यत एवंविधोऽत एव खलीकृतो-वैरिवनिर्धाटितो निःसारितो वा अधर्मः कुधम्मों वा सम्यक्त्ववासितान्त:करणेभ्यो येन स तथा, तथाऽयं जिनधर्मः प्रमुखे-आदौ इहलोकेऽपि रम्यो धम्मिलादीनामिव परिणामे-परिपाकप्राप्तौ भवान्तरेऽपि दामनकादीनामिव रम्यो-मनोज्ञः, मिथ्याष्टिधर्मस्तु नैवंविधः, तस्यारम्भेऽपि पश्चाग्नितपःप्रभृत्यादेमहाकष्टहेतुत्वेन परिणामे परलोके च मिथ्यात्वरूपत्त्वा
दुगतिमूलत्त्वेन चासुन्दरत्वात, विषयसुखस्य तु आदौ सुन्दरत्वेऽपि परिणामे शनै शनैः इहलोके परलोके च कटुविपाकत्वाच्च, जिनधर्मस्त्वादौ परिणामेऽपि च रम्य एव, स एवंविधो धर्मो मे शरणं भवतु ॥४४॥ ___ कालत्रयेऽपि-अतीतानागतवर्तमानरूपे न मृतो-न विनष्टस्तं नमृतं भरतैरवतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नरन्तर्येण सद्भावात् , तथा जन्म च जरा च मरणं च व्याधयश्च जन्मजरामरणव्याधयस्तेषां शतानि तानि शमयतीति जन्मजरामरणव्याधिशतशमकः, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तं, 'सुमय'मिति पाठे तु जन्मजरामरणव्याधिशतानि सुष्टु-अतिशयेन मृतानि-विनष्टानि यस्मात्स तथा, सद्वर्णगन्धरसोपेतं बलवर्णसौभाग्यपुष्टि