SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३८ तथा प्रकृष्टा वादिनः प्रवादिनः, निंर्शब्दो निषेधार्थः तैः प्रवादिभिः न क्षोभ्यते इति प्रवादिनिक्षोभ्यस्तं, अथवा प्रवादिभ्यो निर्गतः क्षोभः कल्पनं यस्य स तथा यद्वा प्रवादिनां निः- नितरां क्षोभो यस्मात्स तथा तं, सुयुक्तियुक्तत्वेन श्रीसर्वज्ञोक्तत्वेन च वादिभिः क्षोभयितुमशक्य इत्यर्थः, 'निहणिय'त्ति निहतो - नाशं नीतो मन्मथयोधः - कामसुभटो येन स तथा, नवगुप्तिरचनारुचिरब्राह्मकवचाश्चितत्वात् धर्मस्य, तं धर्मं शरणं प्रपन्नोऽहमिति ॥ ४७ ॥ अथ निधानोपमया धर्मस्य नमस्कार माह- देवादिभासुरगतिहेतुत्वाद्भासुरः - शोभनो वर्ण:- श्लाघागुणोत्कीर्त्तन रूपो यस्मात्स सुवर्णः, चारित्रवतामिन्द्रादिभिरपि श्लाघनीयत्वात्, तथा सुन्दरा- मनोज्ञा या क्रियाकलापविषया इच्छामिच्छेत्यादिदशविधसामाचार्यादिरूपाया रचना-विविधकल्पना सेव तया वाऽलङ्कारः - शोभा विशेषो यस्य स सुन्दररचनालङ्कारः, तथा गौरवं - महत्त्वं तद्धेतुत्वाद्धर्मोऽपि गौरवं तथा महानर्थोमाहात्म्यविशेषो यस्य स महार्थः, चारित्रवतामामर्षौषध्यादिमाहात्म्यविशेषसंभवात्, ततः पश्चानामपि विशेषणानां कर्मधारयः, अथवा शोभनो वर्ण:- श्लाघा तेन सुन्दरा या सामाचार्यादिरचना सैवालङ्कारो यस्येति एकमेव कार्य, चारित्र - पक्षेऽयं पूर्वोक्तोऽर्थः श्रुतधर्म पक्षे तु रचना पदपङ्क्त्या भास्वरो ज्ञानादिभिः केवलिभिरुक्तत्वात् भास्वरः शोभना वर्णा:
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy