________________
३९
अक्षराणि तेषां तथा सुन्दरा या विरचना तस्या योऽलङ्कारो - द्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणधारणेन च शोभाविशेषः तस्माद्यगौरवं - गुरुत्वं अनन्तार्थवादिरूपं तेन महानर्थ:आधिक्यं पूजातिशयो वा यस्य स तथा ततो विशेषणद्व कर्मधारयः, अथवा भासुरेति वर्णविशेषणं कार्यं, यद्वा भासुरसुवर्णसुन्दररचनालंकारेण गौरवं - गुरुत्वं यस्य स तथा, महार्थमिति पृथक्कृत्वा समस्यते, निधिपक्षे पुनर्भासुरं - दीप्तिमत् सुवर्ण - कनकं सुन्दराणि यानि रत्नानि अलङ्कारा-हाराधाभरणविशेषास्तै गौरवं - सम्पूर्णता तेन महार्घो बहुमूल्यः, 'दोगचि ' -ति चारित्रधर्मपक्षे दुष्टा गतिदु गतिः - कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गतेर्भावो दौर्गत्यं, श्रुतधर्मपक्षे तु गत्यर्था ज्ञानार्था धातवः अतो गतिः -ज्ञानं दुष्टा गतिः दुर्गतिः अज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरं, निधानपक्षे तु दुर्गतस्य-दरिद्रस्य भावो दौर्गत्यं तद्धरतीति दौर्गत्यहरं दारिद्र्यापहारकृदित्यर्थः एवंविधनिधानोपमितं धर्मं श्रीजिनैःश्रीसर्वज्ञः देशितं - उपदिष्टं वन्दे - नमस्कुर्वेऽहमित्यर्थः ॥ ४८ ॥ उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः, अथ दुष्कृतगहरूपं द्वितीयमधिकार माह
चउसरणगमणसंचिअ सुचरिअ-रोमंचअंचिअसरीरो । कयदुक्कडगरिहा-असुहकम्मक्खय-कंखिरो भणह ॥ ४९ ॥ इहभविअमन्नभविअं मिच्छत्तपवत्तणं जमहिगरणं ।
·