________________
लन्दं तत आरभ्योत्कृष्टं पश्चरात्रिन्दिवलक्षणं तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपक्तिरूपाभिः षड्भिः वीथिभिर्जिनकल्पिकवत् परिकल्पयन्ति, एकैकस्यां च वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति, जिनकल्पिकास्त्वेकमेव दिनं सप्तम एव दिने पुनस्तस्यां वीथ्यां समागच्छन्ति इत्येतेषां भेदः, तथा परिहारविशुद्धिकाश्च साधवः, ते चैवं-नव साधवोऽमुं कल्पं प्रतिपद्यन्ते, तेषां मध्ये षण्मासान् यावत् चत्त्वारस्तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्वमेकश्च कल्पस्थितत्वं-गुरुत्वमित्यर्थः, एते पश्चापि निलेपाचाम्लभोजिनः, पारिहारिकाणां ग्रीष्मे चतुर्थषष्ठाष्टमरूपं शिशिरे षष्ठाष्टमदशमरूपं वर्षास्वष्टमदशमद्वादशमरूपं जघन्यमध्यमोत्कृष्टभेदं तपः, पारणके च तेषां नित्यमाचाम्ल, द्वितीयषण्मासाननुपारिहारिकाः पारिहारिकत्वं पारिहारिकाश्चानुपारिहारिकत्वं प्रतिपद्यन्ते, तृतीयषण्मासान् कल्पस्थितः पूर्वोक्तं पारिहारिकतपः अपरेऽष्टापि निर्लेपाचाम्लतपः कुर्वन्ति, एवमष्टादशभिर्मासैरयं कल्पः परिपूर्णो भवति, तत्समाप्तौ च तमेव कल्पं जिनकल्पं वा प्रतिपद्यन्ते गच्छं वा समायान्ति, चः सर्वेषां समुच्चये ॥ ३३ ॥
विशेषलब्धिसंपन्नान् साधूनाह-खीरासव'त्ति चक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रादिविशेषाहारस्या