SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ क्रियते १ इत्याह- 'सावज्जे 'त्ति सावद्याः - सपापा इतरे च निरवद्या ये योगाः - कायादिव्यापारास्तेषां यथासङ्ख्यं ये वर्जनासेवने ताभ्यां वर्जनासेवनातः सावद्यानां वर्जनतः इतराणां त्वासेवनतश्च तेन विशोधिः क्रियते इति तात्पर्यार्थः ॥ २ ॥ उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धि माह दंसणायारविसोही चवीसाय (इ) त्थएण किज्जइ अ । अच्चब्भुअगुणकित्तणरूवेण जिणवरिंदाणं ॥ ३॥ 'दंसणे' त्यादि, दर्शनं - सम्यक्त्वं तस्याचारो - निश्शङ्कितेत्याद्यष्टविधः तस्य विशोधिः- निर्मलता चतुर्विंशतेरात्मनां - जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विंशत्या - त्मस्तवो- लोगस्सेत्यादिरूपस्तेन क्रियते, 'चउवीसाइत्थएणे 'ति पाठे जिनानां चतुर्विंशत्याः स्तवेनेत्यर्थः, चकारो द्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह- 'अच्चब्भुअ' इत्यादि, अत्यद्भुताः - सर्वातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्त्तनं-वर्णनं तद्रूपेण, केषां तदित्याह - ' जिणवरिंदाणं'ति जिना - रागादिजयादुपशान्तमोहादयस्तेषां मध्ये वराः - केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः ॥ ३ ॥ उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचारयोश्च विशेषेण विशुद्धिमाह - ·
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy