________________
नाणाईआ उ गुणा तस्संपन्नपडिवत्तिकरणाओ। वन्दणएणं विहिणा कीरइ सोही उ तेसिं तु ॥४॥ ___ 'नाणाईमा' इति 'नाण'त्ति ज्ञानाचार:- कालविनयाघष्टविधः आदिशब्दादर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव वन्दनका) नान्यो ज्ञानवानपि पार्श्वस्थादिय॑वहारतः चारित्रवानपि निह्नवादिरिति ज्ञापनार्थः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैर्ज्ञानादिगुणैस्सम्पन्ना-युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिः-भक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन ?-वन्दनकेन, कथं ?विधिना-द्वात्रिंशदोषरहिततया पश्चविंशत्यावश्यकविशुद्धतया च, 'तेसिं तु'त्ति तेषां-ज्ञानाचारादीनां तुः पुनरर्थे चारित्राचारदर्शनाचारयोः प्राक्शोधितयोरपि पुनर्विशेषेण शोधिः क्रियते इत्यर्थः ।। ४ ॥ उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाह-- खलियस्सय तेसिं पुणो विहिणाजं निंदणाइ पडिकमणं। तेणं पडिकमणेणं तेसिपि य कीरए सोही ॥५॥ चरणाइयाइया(ईयारा)णं जहक्कम वणतिगिच्छरूवेणं । पडिकमणामुडाणं सोही तह काउसग्गेणं ॥ ६॥
स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसञ्जाता