SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४८ चत्वारि-दानशीलतपोभावनारूपाणि अङ्गानि यस्य स चतुरङ्गो-दानादिचतुष्प्रकार इत्यर्थः जिनधर्म:-अर्हद्धर्मों न कृतो-न विहितः आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात् , तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्ग शरणमपि-अहंसिद्धसाधुधर्मरूपमपि न कृतं, तथा चतुरङ्गभवस्यनरकतियनरामरलक्षणस्य छेदो-विनाशो विशिष्टचारित्रतपश्वरणादिना न कृतो येनेत्यध्याहायं तेन 'हा' इति खेदे हारितं-वृथा नीतं जन्म-मनुष्यभवः, प्राकृतत्वात्पुंस्त्वं, तस्य हारणं च अकृतधर्मस्य जीवस्य पुनरतिशयेन मानुषस्य दुष्प्रापत्वाद् अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मा अन्त्यसमये संजातविवेकः स्वयमात्मानं शोचयति-चतुरङ्गो जिनधर्मो मया न कृत इत्यादि हा मया हारितं-निष्फलीकृतं मनुष्यजन्म, देवा अपि विषयप्रमादादकृतजिनजन्मोत्सवादिपुण्याश्च्यवनसमये अनेनैव प्रकारेण खेदं कुर्वन्ति ॥ ६२ ।। अथ प्रस्तुताध्ययनोपसंहारमाहइइजीव पमायमहारि(जिअ)वीर-भद्दन्तमेवमज्झयणं। झाएसु तिसंझमवंझकारणं निव्वुहसुहाणं ॥६३ ॥ ___ 'इति'उक्तप्रकारेण हे जीव-! हे आत्मन् ! एतदध्ययनं ध्याय-स्मर त्रिसन्ध्यं-संध्यात्रये इति संबन्धः, कथंभूतं ?'पमायमहारिवीरं'ति प्रमादा एव महान्तोऽरयः-शत्रवः, चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वात्प्रमादस्य,
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy