SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४७ ता एयं कायव्वं बुहेहि णिच्चपि संकिलेसम्मि । होइ तिकालं सम्मं असंकिलेसंमि सुगई(कय)फलं।६।। 'ता' इति तस्मात्कारणात 'एयंति एतदनन्तरोक्तं चतुःशरणादि कर्तव्यमिति--विधेयं विबुधैः--अवगततचैर्नित्यमपि-सततमपि, कस्मिन् ?--संक्लेशे-रोगाद्यापद्रपे, एतेन यथा कर्षकैः शाल्यादिवीजं शस्यनिष्पत्तये उसमपि पलालाधानुषङ्गिकं जनयति एवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्यपसर्गोपशान्ति तनोतीति दर्शितं, तथा असंक्लेशो-रोगाद्यभावस्तस्मिन् चतुःशरणादि भवति त्रिकालं.-सन्ध्यात्रयरूपे काले विधीयमानमिति शेषः, सम्यग्मनोवाकायोपयुक्ततया, कथं भवतीत्याह-'सुगईफलं'ति शोभना गतिः सुगतिः-स्वर्गापवर्गरूपा सैव फलं यस्य तत्सुगतिफलं, स्वर्गमोक्षप्राप्तिफलमित्यर्थः, सम्यक्चतुःशरणादिकृतां साधूनामुत्कर्षतो मोक्षं यावत् श्राद्धानामच्युतं यावच्च गतेः श्रीसिद्धान्ते प्रोक्तत्वात् , 'सुकयफल मिति पाठे तु सुकृतं-पुण्यं शुभानुवन्धि तत्प्राप्तिः फलं भवतीत्यर्थः ।। ६१ ॥ अथ योऽतीव दुर्लभां मनुष्यत्वादिसामग्री प्राप्यापि चतुःशरणादि प्रमादादिना न कृतवान् तं शोचयति चउरंगो जिणधम्मो न कओ चउरंगसरणमवि न कयं। चउरंगभवुच्छेओ न कओ हा हारिओ जम्मो ॥६२॥
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy