SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४ तेषां प्रमादमहारीणां विनाशाय वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः, पुनः कथंभूतं ?-भद्रमन्ते यस्मात्तद्भद्रान्तं-मोक्षप्रापकमित्यर्थः, अथवा हे वीर हे भद्रेति संबोधनपदद्वयं जीवस्योत्साहवृद्धिहेतुः, 'अंत'मिति जीवितान्तं यावदेवैतदध्ययनं ध्यायेत्यर्थः, पुनः किंभूतं ?-अवन्ध्यकारणंसफलकारणं, केषां -निवृत्तिः-मोक्षस्तत्सुखानामिति, 'जिअ' इति पाठे तु जितप्रमादमहारिपुर्योऽसौ वीरभद्रः साधु: श्रीवीरसत्कचतुर्दशसहस्रसाधुमध्यवर्ती तस्येदं जितं तदेतदध्ययनं ध्यायेत्यादि, एवं शास्त्रकतु: समासगर्भमभिधानमुक्तं, अस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन यस्य जिनस्य यावन्तो मुनयो वैनयिक्यौत्पत्तिक्यादिबुद्धिमन्तः प्रत्येकबुद्धा अपि तावन्त एव प्रकीर्णकानि अपि तावन्ति भवन्तीति ज्ञापितं भवतीति गाथार्थः ॥ ६३ ॥ ॥ इतिश्रीचतुःशरणप्रकीर्णकावचूर्णिरियं सम्पूर्णा ॥
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy