SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४१ चाधिकरण बार्चनतच्चैत्यकारापणाद्यधिकरणं, अन्यदपि भवनारामतटाकादिकारण सधनुः खड्गादिशस्त्रयन्त्रगन्त्रीहलोदुखलशृङ्खला दिविधापनदानादिरूपं यत्कृतमिति शेषः, तथाऽन्यच्च जिनप्रवचने यत्प्रतिकुष्टं - प्रतिषिद्धं दुष्टं तत्पापं गमि - जुगुप्सामीत्यर्थः ॥ ५० ॥ उक्ता सामान्येन दुष्कृतगर्हा, सम्प्रति विशेषेण तामाहमिथ्यात्वमेव तमः - अन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्यात्वशास्त्रोपहतभावचक्षुषा जीवेनेति शेषः, 'अर्हदादिषु' अर्हसिद्धाचार्योपाध्यायादिषु पूजाबहुमाना हेषु 'अवण्णवयणं जं'ति अवर्णवादवचनं - असदोषकथनं अवज्ञावचनं वा हीलारूपं यदज्ञानेन - विवेकशून्येन उक्तमिति शेषः, तथा विरचितं कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यच्चान्यदपि जिनधर्म प्रत्यनीकत्ववितथप्ररूपणापरदेवधर्मस्थानादिरूपं, इदानीमवगतपरमार्थस्तत्पापं गर्हामिनिन्दामि गुरुसमक्षमालोचयामीत्यर्थः ॥ ५१ ॥ श्रुतं च धर्मश्व संघश्च साधवश्च श्रुतधर्मसंघसाधवः तेषु पापं - आशातनारूपं प्रत्यनीकतया - विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य - द्वादशांगरूपस्य तदध्ये त्रध्यापकानामुपरि यदरुच्य बहुमानादि चिन्तनं 'अज्ञानमेव शोभन' मिति भणता पूर्वभवे माषतुषस्येव, धर्मप्रत्यनीकता 'कविला इत्थंपि इहयंपी'ति भणतो मरीचेखि, संघप्रत्यनीकतां संमेतशैलया
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy