________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। पाठान्तरे जिनोपदेशेन मासेनैव विशोत्स्थतीति विज्ञाय स्वस्थानं मासिकमेव प्रायश्चित्तं ददति प्रयच्छन्ति / यदि पुनर्द्वमासिकं त्रैमासिकं यावत्पारश्चितं वा मासांहैरेवं रागद्वेषाध्यवसायैस्ततो हीनतरैर्वा प्रतिसेवितं यदि पश्चात् हा दुष्टु कृतमित्यादिमिनिन्दनैः प्रतनुकृतं तदा जिनाः केवलादिबलतः श्रुतव्यवहारिणो गुरूपदेशतस्तथा विज्ञाय तमै मासं भिन्नमासं यावदन्ते निविकृतिकमपि प्रयच्छन्ति, ततो न कश्चिद्दोषः / पुनरप्याह चोदकःपत्तेयं पत्तेयं. पए पए भासिऊण अवराहे। तो केण कारणेणं, हीणब्भहिया व पट्टवणा // 331 // पदे पदे सूत्रगते प्रत्येक प्रत्येकमपराधान् भाषित्वा तदनन्तरमर्थतः केन कारणेन हीना अभ्यधिका वा प्रस्थापना भणिता / यथा स्तोके प्रायश्चित्तस्थाने बहु प्रयच्छथ, बहुके वा स्तोकं, यदि वा सर्वथा झोषं कुरुथेति प्राचार्य पाहमणपरमोहिजिणं वा चउ दस दस पुब्वियं च नवपुचि। थेरं च समासज्जाऊणब्भहिया च पट्टवणा।३३२॥ ___मनःपर्यायज्ञानिनं परमावधि प्रभूतावधिं जिनं वा केवलज्ञानिनं चतुर्दशपूर्विणं दशपूर्विणं नवपूर्विणं च स्थविरांश्च समासाद्याश्रित्य हीना अभ्यधिका वा प्रस्थापना भवति, / इयमत्र भावना-मनःपरमावधिजिनादयः प्रत्यक्षज्ञानिनस्ततस्ते प्रतिसेवकेषु रागद्वेषाध्यवसायस्थानानां हानि वृद्धिं वा साक्षादवेक्षमाणास्तुल्येऽप्यपराधपदे रागद्वेषानुरूपं हीनमधिकं वा प्रस्थापयन्ति ददतीत्यर्थः। अथ ये मनःपरमावधिजिनादयः प्रत्यक्षज्ञानिनस्तेषामेतत् युक्तं रागद्वेषाध्यवसायवृद्धिहान्या साक्षादवेक्षणात / ये पुनः स्थविरास्ते कथं रागद्वेषाणां हानि वा वृद्धि वा जानीयुरुच्यते / बाह्यपश्चाचापाादीलिङ्गतस्तत्र हानिपरिज्ञानलिङगं पश्चाचापादिकमाह For Private and Personal Use Only