Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 272
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ख्यातमधुना तत्थेवत्ति व्याख्या-यदि पार्श्वस्थादिको नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्त तया दत्तं ततस्तत्रैव तत् शुद्धं तपो वहति यावत्तपो वहति तावत्तस्यालोचनाप्रदायिनः सुखदुःखे गवेषयति, सर्वमुदन्तं वहतीत्यर्थः पश्चात्कृतगतमेव विधिमाहलिंगकरणं निसेजा कितिकम्म मणिच्छतो पणामो य। एमेय देवयाए नवरं सामाइयं मोत्तुं / पश्चात्कृतस्यत्वरकालसामायिकारोपण पुरस्सरमित्वरकालं लिङ्गकरणं रजोहरणसमर्पणं तदनन्तरं निषद्याकरणं / ततः कृतिकर्म वन्दनकं दातव्यम् / अथ स वन्दनकं नेच्छति ततस्तस्य कृतिकर्मा निच्छतः प्रणामो वाचा कायेन च प्रणाममात्र कर्तव्यं पार्श्वस्थादेरपि कृतिकोनिच्छायां प्रणामः कर्तव्यः / एवमेव अनेनैव प्रकारेण देवताया अपि सम्यक्त्व भावितायाः पुरतः आलोचयति / नवरं सामायिकारोपणं लिङ्गसमर्पणं च न कर्तव्यमविरतत्वेन तस्यास्तद्योग्यताया अभावात् / यदुक्तं ' गवेषणा जाव सुहदुक्खे' इति तद्व्याख्यानयति आहार उवहि सेज्जा एसणामादीसु होइ जइयव्वं / अणमोयण कारावण सिक्खत्ति पयम्मित्तो सद्धो। ___आहारः पिण्ड उपधिपात्रनिर्योगादिः शय्या वसतिरेषणाशब्दः प्रत्येकममिसम्बध्यते / आहारैषणायामुपध्येषणायां शय्यैषणायामादिशब्दाद्विनयवैयावृत्यादिषु च भवति तेन यतितव्यम् / कथमित्याह-अनुमोदनेन कारापणेन च / किमुक्तं भवति ? यदि तस्यालोचनाहस्य कश्चिदाहारादीन् उत्पादयति ततस्तस्यानुमोदनाकरणतः प्रोत्साहने यतते अथान्यः कश्चिन्नोत्पादयति ततः स्वयमालोचक आहारादीन् शुद्धानुत्पादयति / अथ शुद्धं नोत्पाद्यते ततः श्राद्धान् प्रोत्सायाकल्पि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276