Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इह परिवाराभावे तस्यालोचनाहस्य कर्तव्यमिति / सामाचारी च तेषां पार्श्वस्थादीनां, दुविहा असती इति परिवाराभावो द्विविधः विद्यमानाभावोऽविद्यमानाभावश्च / विद्यमानः सन् अभावोऽसन् वैयावृत्यादेरकरणात् विद्यमानाभावः। अविद्यमानसनभावो विद्यमानाभावः / तत्र द्विविधेऽप्यभावे से तस्यालोचनार्हस्याहारादिकं सर्व कल्पिकमकल्पिक वा यतनया करोति उत्पादयति / यतनया कथमकम्पिकमुत्पादयति इति चेदत आह-पञ्चकहान्या यतमानः / किमुक्तं भवति ? अपरिपूर्ण मासिकप्रायश्चित्तस्थानप्रतिसेवनापत्तौ गुरुलाघवपर्यालोचनया पश्चकादि पञ्चकहीनमासिकप्रायश्चित्तस्थानप्रतिसेवनां करोति / तामपि यतनया पञ्चकग्रहणमुपलक्षणं तेन दशादिहान्यापि यतमान इति द्रष्टव्यम् / एवं सर्वत्र न केवलमालोचनार्थिमेवं यतते किन्तु कारणे समुत्पन्ने आत्मार्थमप्येवमेव पश्चकहान्या यतत इति / यदुक्तं सम्यक्त्वभाषितायाः पुरतः आलोचयितव्यमिति तदेतद्भावयतिकोरंटगं जहा भावियटमं पुच्छिऊण वा अन्नं / असति अरिहंत सिद्धे जाणंतो सुद्धो जा चेव // कोरण्टकं नाम भरुकच्छे उद्यानं, तत्र भगवान्मुनिसुव्रतस्वाम्यहन्नभीक्ष्णं समवमृतस्तत्र तीर्थकरेण गणधरैः च बहूनां बहूनि प्रायश्चितानि च दीयमानानि तत्रत्यया देवतया दृष्टानि ततः कोरण्टकं गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यक्कंपिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति / सा च प्रयच्छति यथार्ह प्रायश्चित्तं, / अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दष्टस्तीर्थंकरस्ततः साष्टमेनाकंपिता ब्रूतेमहाविदेहे तीर्थकरमापृच्छय समागच्छामि / ततः सा तेनानुनाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्ट्वा च समागत्य For Private and Personal Use Only

Page Navigation
1 ... 272 273 274 275 276