Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो श्री व्यवझरसूत्रस्य पीठिका विभागः। नंतरः। // 136 // कानप्याहारादीन् यतनया उत्पादयतीति / अथाकल्पिकानाहारादीनुत्पादयतः तस्य महती मलिनतोपजायते / अथ च स शुद्धिकरणार्थ तदन्तिकमागतस्ततः परस्पर विरोधः / अत्राह-सिक्खत्ति पयंमितो सुद्धो यद्यपि नाम तस्यालोचनाईस्यार्थाया कम्पिकानप्याहारादीनुत्पादयति / तथाप्यासेवनाशिता तस्यान्तिके क्रियते / वितियपदे अपवादपदे स तथा वर्तमानः शुद्ध एव तदेव भावयतिचोइय से परिवारं अकरेमाणे भणइ या सड्ढे। अव्योच्छित्ति करिस्त उ सुयभत्तीए कुणहयूयं // प्रथमतः से तस्यालोचनाईस्य परिवारं वैयावृत्यादिकमकुर्वन्तं चोदयति शिक्षयति / तथा ग्रहणा सेवना शिक्षा निष्णात एष तत एतस्य विनयवैयावृत्यादिकं क्रियमाणं महानिर्जराहेतुरिति / एवमपि शिक्षमाणो यदि न करोति ततस्तस्मिन्नकुर्वाणे स्वयमाहारादीनुत्पादयति / अथ स्वयं शुद्धं प्रायोग्यमाहारादिकं न लभते ततः श्राद्धान् भणति प्रज्ञापयति / प्रज्ञाप्य च तेभ्योऽकल्पिकमपि यतनया सम्पादयति / न च वाच्यं तस्यैवं कुर्वतः कथं न दोषो यत आह-अव्वोच्छित्तीत्यादि / अव्यच्छित्तिकरस्य पार्श्वस्थादेः श्रुतभक्तिहेतुभूतया अकल्पिकस्याप्याहारादेः संपादनेन श्रुतभक्त्या पूजां कुरुत यूयं न च तत्र दोष एवमत्रापि / इयमत्र भावना-यथा कारणे पार्श्वस्थादीनां समीपे सूत्रमर्थ च गृङ्खानोऽकल्पिकमप्याहारादिकं यतनया तदर्थ प्रतिसेवमानः शुद्धो ग्रहणशिक्षाया क्रियमाणत्वादेवमालोचनार्हस्यापि निमित्तं प्रतिसेवमानः शुद्ध एव आसेवना शिक्षायाः तत्समीपे क्रियमाणत्वादिति एतदेव स्पष्टतरं भावयति दुविहा सती एतेसिं आहारादि करेइ सव्वेसिं / पणहाणीए जयंतो यत्तट्ठाए वि एमेव / / // 136 // For Private and Personal Use Only

Page Navigation
1 ... 271 272 273 274 275 276